Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 43

Atharvaveda 11/3/43

10 Sukta
56 Mantra
11/3/43
Devata- मन्त्रोक्ताः Rishi- अथर्वा Suktam- ओदन सूक्त
Mantra with Swara
तत॑श्चैनम॒न्येन॑ व॒स्तिना॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॒प्सु म॑रिष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॑मु॒द्रेण॑ व॒स्तिना॑। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

तत॑: । च॒ । ए॒न॒म् । अ॒न्येन‍॑ । व॒स्तिना॑ । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ अ॒प्ऽसु । म॒रि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒मु॒द्रेण॑ । व॒स्तिना॑ ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सर्व॑ऽअङ्ग: ॥ ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम्‌ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥४.१२॥

Mantra without Swara
ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। अप्सु मरिष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। समुद्रेण वस्तिना। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

तत: । च । एनम् । अन्येन‍ । वस्तिना । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अप्ऽसु । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ समुद्रेण । वस्तिना ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: । सर्वऽअङ्ग: ॥ एव । सर्वऽपरु: । सर्वऽतनू: । सम्‌ । भवति । य: । एवम् । वेद॥४.१२॥

Available Bhashyas

1 Bhashyas
Meaning
१. ('वसति अस्मिन् अशितपीतानोदकम् इति वस्ति: मूत्राशयः। इतरावयवानामिव तस्यापि प्राशने साधकतमत्वमस्त्येव-सा०') = शरीर में भोजन का सब जल अन्तत: मूत्राशय में निवास करता है। यह शरीरस्थ समुद्र है। इसका ठीक रहना स्वास्थ्य के लिए नितान्त आवश्यक है। वास्तव में जैसे समुद्रजल शरीर के मलों को दूर करने का साधन है, इसी प्रकार यह वस्तिजल भी सभी मलों को दूर करके नौरोग बनानेवाला है। ('नरमूत्रम् रसायनम्') = ऐसा आयुर्वेद में कहा गया है। (तत: च) = और तब (येन च वस्तिना) = निश्चय से जिस वस्ति से (पूर्वे ऋषयः) = पालक तत्वद्रष्टाओं ने (एतं प्राश्नन्) = इस ब्रह्मौदन को खाया है, (अन्येन) = उससे भिन्न अन्य वस्ति से (एनं प्राशी:) = यदि तू इसे खाता है तो वह ब्रह्मज्ञानी (एनम् आह) = इसे कहता है कि अप्सु मरिष्यसि इति-[आपः रेतो भूत्वा०] रेत:कणों के विषय में तू विनाश को प्राप्त होगा। इन रेत:कणों को ठीक से सुरक्षित न रख सकेगा। (अहम्) = मैंने तो (तं वै) = उस ब्रह्मौदन को निश्चय से (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल नीचे इस पृथिवी के पदार्थों का, न सुदर धुलोक के पदार्थों का और न ही केवल सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला जाना है। मैंने (एनम्) = इस ब्रह्मौदन को (तेन समुद्रेण वस्तिना) = उस शरीरस्थ समद्रतल्य वस्तिप्रदेश को ठीक रखने के हेतु से (प्राशिषम्) = सेवन किया है, (तेन एनं अजीगमम्) = उसी हेतु से इसे प्राप्त किया है। इसके स्वास्थ्य से ही तो मैं शरीर में रेत:कणरूप जलों को सुरक्षित करके स्वस्थ बना हूँ। २. (एषः वा ओदन:०) = [शेष पूर्ववत्]
Essence
हम वेदज्ञान द्वारा शरीरस्थ समुद्ररूप वस्तिप्रदेश के महत्त्व को समझें। इसके स्वास्थ्य से शरीर में रेत:कणरूप जलों का रक्षण करते हुए जीवन का धारण करें। ('मरणं बिन्दु पातेन जीवन बिन्दुधारणात्।')
Subject
समुद्रेण वस्तिना