Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 42

Atharvaveda 11/3/42

10 Sukta
56 Mantra
11/3/42
Devata- मन्त्रोक्ताः Rishi- अथर्वा Suktam- ओदन सूक्त
Mantra with Swara
तत॑श्चैनम॒न्येनो॒दरे॑ण॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। उ॑दरदा॒रस्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॒त्येनो॒दरे॑ण। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

तत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । उ॒दरे॑ण । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ उ॒द॒र॒ऽदा॒र: । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒त्येन॑ । उ॒दरे॑ण ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू:। सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥४.११॥

Mantra without Swara
ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। उदरदारस्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सत्येनोदरेण। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

तत: । च । एनम् । अन्येन । उदरेण । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ उदरऽदार: । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्येन । उदरेण ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू:। सम् । भवति । य: । एवम् । वेद॥४.११॥

Available Bhashyas

1 Bhashyas
Meaning
१. (ततः च) ृ और तब येन (च उदरेण) = जिस उदर से निश्चयपूर्वक (पूर्वे ऋषयः) = पालक तत्त्वद्रष्टाओं ने (एतं प्राश्नन्) = इस ब्रह्मौदन का सेवन किया, यदि तू (अन्येन) = उससे भिन्न उदर से (एनं प्राशी:) = इसे खाता है, तो (एनम् आह) = वह तत्वद्रष्टा इससे कहता है कि (उदरदारः त्वा हनिष्यति इति) = [उदरस्य दरणम्] अतिसार-रोग तुझे नष्ट कर डालेगा। (तं वा अहम्) = मैं तो निश्चय से उस ब्रह्मौदन को (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल इस पृथिवी का, न सुदूर झुलोक का और न ही सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला मानता हूँ। मैंने तो (तेन सत्येन उदरेण) = सत्य के उदर से ही (एनं प्राशिषम्) = इस ब्रह्मौदन को खाया है, (तेन एनम् अजीगमम्) = उस सत्य के उदर से ही इसे प्राप्त किया है। इस वेदज्ञान से मैंने यह सीखा है कि भोजन में पूर्ण सत्य का पालन करना आवश्यक है। वही भोजन करना ठीक है जोकि उदर के द्वारा सुपच हो। यही भोजन हमें अतिसार आदि रोगों से बचाएगा। २. (एष: वा ओदनः०) = [शेष पूर्ववत्]
Essence
हम वेदज्ञान प्रास करें और 'अग्रे तौलस्य प्राशान', इस वेदादेश के अनुसार भोजन में पूर्ण सत्य नियमों का पालन करें 'हिताशी, मिताशी व कालभोजी' बनें। ऐसा होने पर ही हम अतिसार आदि रोगों से पीडित न होंगे।
Subject
सत्येन उदरेण