Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 40

Atharvaveda 11/3/40

10 Sukta
56 Mantra
11/3/40
Devata- मन्त्रोक्ताः Rishi- अथर्वा Suktam- ओदन सूक्त
Mantra with Swara
तत॑श्चैनम॒न्येन॑ पृ॒ष्ठेन॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। वि॒द्युत्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। दि॒वा पृ॒ष्ठेन॑। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

तत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । पृ॒ष्ठेन॑ । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ वि॒ऽद्युत् । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ दि॒वा । पृ॒ष्ठेन॑ । तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.९॥

Mantra without Swara
ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। विद्युत्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। दिवा पृष्ठेन। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

तत: । च । एनम् । अन्येन । पृष्ठेन । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ विऽद्युत् । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ दिवा । पृष्ठेन । तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.९॥

Available Bhashyas

1 Bhashyas
Meaning
१. (तत: च) = और तब (एतम्) = इस ब्रह्मौदन को (येन च पृष्ठेन) = निश्चय से जिस ज्ञान व प्रकाश के सेचन [पृषु to sprinkle] के हेतु से (पूर्वे ऋषयः प्राश्नन्) = पालक तत्त्वद्रष्टाओं ने खाया, (अन्येन) = उससे भिन्न धन आदि सेचन के हेतु से (एन प्राशी:) = इसे खाता है, तो वह तत्त्वद्रष्टा (एनम् आह) = इससे कहता है कि (विद्युत् त्वा हनिष्यति इति) = बस, यह धन की चमक [विद्युत] ही तुझे मार डालेगी। (अहम्) = मैं तो (वै तम्) = निश्चय से उसे (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल पृथिवी के, न केवल सुदूर धुलोक के और न ही केवल सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला जानता हूँ और (तेन दिवा पृष्ठेन) = उस ज्ञानदीप्ति के हेतु से ही (एनं प्राशिम्) = इसे मैंने खाया है, (तेन एनम् अजीगमम्) = उसी हेतु से इसे प्रास किया है। २. (एषः वा ओदन:०) = [शेष पूर्ववत्]
Essence
हमें इस ब्रह्मौदन को अपने मस्तिष्करूप द्युलोक को ज्ञानसिक्त करने के उद्देश्य से ही खाना है। धन आदि के विस्तार का उद्देश्य होने पर इस धन की चमक ही हमें खा जाएगी।
Subject
दिवा पृष्ठेन