Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 38

Atharvaveda 11/3/38

10 Sukta
56 Mantra
11/3/38
Devata- मन्त्रोक्ताः Rishi- अथर्वा Suktam- ओदन सूक्त
Mantra with Swara
तत॑श्चैनम॒न्यैः प्रा॑णापा॒नैः प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। प्रा॑णापा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॑प्तऋ॒षिभिः॑ प्राणापा॒नैः। तै॑रेनं॒ प्राशि॑षं तैरेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

तत॑: । च॒ । ए॒न॒म् । अ॒न्यै: । प्रा॒णा॒पा॒नै: । प्र॒ऽआशी॑: । यै: । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य । प्र॒ऽआश्न॑न् ॥ प्रा॒णा॒पा॒ना: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒प्त॒र्षिऽभि॑: । प्रा॒णा॒पा॒नै: ॥ तै: । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तै: । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनु: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.७॥

Mantra without Swara
ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। प्राणापानास्त्वा हास्यन्तीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सप्तऋषिभिः प्राणापानैः। तैरेनं प्राशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

तत: । च । एनम् । अन्यै: । प्राणापानै: । प्रऽआशी: । यै: । च । एतम् । पूर्वे । ऋषय । प्रऽआश्नन् ॥ प्राणापाना: । त्वा । हास्यन्ति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सप्तर्षिऽभि: । प्राणापानै: ॥ तै: । एनम् । प्र । आशिषम् । तै: । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनु: । सम् । भवति । य: । एवम् । वेद ॥४.७॥

Available Bhashyas

1 Bhashyas
Meaning
१. (ततः च) = और तब (यैः च प्राणापान:) = जिन प्राणापानों से (पूर्वे ऋषयः) = पालन करनेवाले ऋषियों ने (एतं प्राश्नन्) = इस ब्रह्मौदन को खाया, (अन्यैः) = उनसे भिन्न प्राणापानों से (एनं प्राशी:) = इस ब्रह्मौदन को तू खाता है, तो वह ब्रह्मज्ञानी (एनम् आह) = इसे कहता है कि (प्राणापानाः त्वा हास्यन्ति) = प्राण और अपान तुझे छोड़ जाएंगे। प्राणापान की शक्ति को ठीक रखने में इस ब्रह्मौदन का सेवन सहायक है। (अहं वै तम्) = मैं तो निश्चय से उस ब्रह्मौदन को (न पराञ्चं न अर्वाञ्चं न प्रत्यञ्चम्) = न केवल पृथिवी के, न ही युलोक के और न सम्मुखस्थ इस अन्तरिक्ष के पदार्थों का ज्ञान देनेवाला मानता हूँ। यह इन सब लोकों के पदार्थों का ज्ञान देता हुआ ब्रह्म का ज्ञान दे रहा है। मैंने (तै:) = उन (समर्षिभिः प्राणापान:) = दो कान, दो नासिका छिद्र, दो आँखें व मखरूप ससर्षिभूत प्राणापानों के द्वारा (एनं प्राशिषम्) = इस ब्रह्मौदन को खाया है, (तैः एनं अजीगमम्) = उन ससर्षियों से इसे प्राप्त किया है। २. (एषः वा ओदनः०) = [शेष पूर्ववत्]
Essence
हम दो कानों, नासिका-छिद्रों, आँखों व मुखरूप समर्षियों द्वारा ज्ञान-प्राप्ति का यल करें। अन्यथा इनकी शक्ति क्षीण हो जाएगी। वेद का स्वाध्याय प्राणापान की शक्ति को ठीक रखनेवाला होता है।
Subject
समर्षिभिः प्राणापानैः