Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 37

Atharvaveda 11/3/37

10 Sukta
56 Mantra
11/3/37
Devata- मन्त्रोक्ताः Rishi- अथर्वा Suktam- ओदन सूक्त
Mantra with Swara
तत॑श्चैनम॒न्यैर्दन्तैः॒ प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। दन्ता॑स्ते शत्स्य॒न्तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। ऋ॒तुभि॒र्दन्तैः॑। तै॑रेनं॒ प्राशि॑षं तैरेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

तत॑: । च॒ । ए॒न॒म् । अ॒न्यै: । दन्तै॑: । प्र॒ऽआशी॑: । यै: । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ दन्ता॑: । ते॒ । श॒त्स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् । ऋ॒तुऽभि॑: । दन्तै॑: ॥ तै: । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तै: । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.६॥

Mantra without Swara
ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। दन्तास्ते शत्स्यन्तीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। ऋतुभिर्दन्तैः। तैरेनं प्राशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

तत: । च । एनम् । अन्यै: । दन्तै: । प्रऽआशी: । यै: । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ दन्ता: । ते । शत्स्यन्ति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् । ऋतुऽभि: । दन्तै: ॥ तै: । एनम् । प्र । आशिषम् । तै: । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.६॥

Available Bhashyas

1 Bhashyas
Meaning
१. (ततः च) = और तब (यैः च दन्त:) = जिन दाँतों से (एतम्) = इस ब्रह्मौदन को (पूर्वे ऋषयः) = पालन व पूरण करनेवाले, वासनाओं का संहार करनेवाले ऋषियों ने (प्राश्नन्) = खाया, (अन्यैः) = उनसे भिन्न दाँतों से-भिन्न दृष्टिकोण से जो (एनं प्राशी:) = इस ब्रह्मौदन को खाता है, तो वह तत्त्वद्रष्टा (एनम् आह) = इसे कहता है कि (ते दन्ताः शत्स्यन्ति) = तेरे दाँत टूट जाएँगे। (तं वै अहम्) = उस ब्रह्मौदन को निश्चय से मैं तो न अर्वाञ्चम् न केवल नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला, (न पराञ्चम्) = न ही दूरस्थ द्युलोक के पदार्थों का ज्ञान देनेवाला और (न प्रत्यञ्चम्) = न ही सम्मुखस्थ अन्तरिक्ष के पदार्थों का ज्ञान देनेवाला मानता हूँ। मैंने तो (एनम्) = इस ब्रह्मौदन को (तैः ऋतुभिः दन्तै:) = उन ऋतुरूप दाँतों से (प्राशिषम्) = खाया है। दो-दो मासों में बनी हुई ये ऋतुएँ मानो ऊपर व नीचे की दन्तपंक्तियाँ हैं। (तै:) = उनके द्वारा मैंने (एनं अजीगमम्) = इस ब्रह्मौदन को प्राप्त किया है, अर्थात् सब ऋतुओं में ज्ञान को प्राप्त करते हुए ज्ञान का वर्धन किया है। २. (एषः वा ओदन:) = [शेष पूर्ववत्]
Essence
ऋषि लोग सब ऋतुओं में ज्ञान प्राप्त करने के लिए यनशील होते हैं। सब ऋतुएँ वे दाँत हैं, जिनसे कि ब्रह्मौदन खाया जाता है। यदि हमारे दाँत इन ज्ञान की वाणियों के उच्चारण में व्याप्त नहीं होते और व्यर्थ के स्वादिष्ट भोजनों को ही करते हैं तो वे दाँत शीघ्र नष्ट हो जाते हैं।
Subject
ऋनुभिः दन्तैः