Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 33

Atharvaveda 11/3/33

10 Sukta
56 Mantra
11/3/33
Devata- मन्त्रोक्ताः Rishi- अथर्वा Suktam- ओदन सूक्त
Mantra with Swara
तत॑श्चैनम॒न्याभ्यां॒ श्रोत्रा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ब॑धि॒रो भ॑विष्य॒सीत्ये॑नमाह। तं वा॑ अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। द्यावा॑पृथि॒वीभ्यां॒ श्रोत्रा॑भ्याम्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

तत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । श्रोत्रा॑भ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ब॒धि॒र: ।‍ भ॒वि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ द्यावा॑पृथि॒वीभ्या॑म् । श्रोत्रा॑भ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.२॥

Mantra without Swara
ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। बधिरो भविष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। द्यावापृथिवीभ्यां श्रोत्राभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

तत: । च । एनम् । अन्याभ्याम् । श्रोत्राभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ बधिर: ।‍ भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ द्यावापृथिवीभ्याम् । श्रोत्राभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.२॥

Available Bhashyas

1 Bhashyas
Meaning
१. (ततः च) = और तब (एनम्) = इस ब्रह्मौदन को (याभ्यां श्रोत्राभ्याम्) = जिन द्यावापृथिवीरूप श्रोत्रों से (पूर्वे ऋषयः) = पालन व पूरण करनेवाले, वासनाओं के संहारक तत्त्वद्रष्टा पुरुषों ने (प्राश्नन्) = खाया-ग्रहण किया, (अन्याभ्याम्) = उससे भिन्न द्यावापृथिवीरूप श्रोत्रों से (प्राशी:) = ग्रहण करेगा तो वह तत्त्वद्रष्टा (एनम् आह) = इसे कहता है कि (बधिर:भविष्यसि इति) = अपनी श्रोत्रशक्ति को नष्ट कर बैठेगा। (अहम्) = मैंने तो (तम्) = उस ओदन को (वै) = निश्चय से (न अर्वाञ्चम्) = न केवल यहाँ-नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला, (न पराञ्चम्) = न दूर के-द्युलोक के ही पदार्थों का ज्ञान देनेवाला (न प्रत्यञ्चम्) = न सम्मुख-अन्तरिक्ष के ही पदार्थों का ज्ञान देनेवाला जाना है। अपितु (ताभ्यां द्यावापृथिवीभ्यां श्रोत्राभ्याम्) = उन द्यावापृथिवीरूप श्रोत्रों के हेतु से ही (एनं प्राशिषम्) = इस ब्रह्मौदन का ग्रहण किया है, (ताभ्याम्) = उन द्यावापृथिवीरूप श्रोत्रों के हेतु से ही (एनं अजीगमम्) = इस ब्रह्मौदन को प्रास हुआ हूँ। इन श्रोत्रों के द्वारा ही तो मुझे ब्रह्म की महिमा का श्रवण करना है। २ (एषः वा ओदनः०) [शेष पूर्ववत्]|
Essence
तत्त्वद्रष्टा ऋषियों ने इस वेदज्ञान को द्यावापृथिवीरूप श्रोत्रों से ग्रहण किया। इसमें दिया गया द्यावापृथिवी का ज्ञान उनके लिए ब्रह्म का ज्ञान देनेवाला हुआ। इससे उन्होंने ब्रह्म की महिमा को जाना। यदि यह द्यावापृथिवी का ज्ञान हमें ब्रह्म की महिमा को सुनानेवाला नहीं हुआ तो 'बधिर' ही तो रहे, अतः हम इनके ज्ञान में प्रभु-महिमा का श्रवण करें।
Subject
द्यावापृथिवीभ्यां श्रोत्राभ्याम्