Mantra 1
उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥
उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । उत्ऽआ॑रा: । के॒तुऽभि॑: । स॒ह । सर्पा॑: । इत॑रऽजना: । रक्षां॑सि । अ॒मित्रा॑न् । अनु॑ । धा॒व॒त॒ ॥१२.१॥
Mantra 2
ई॒शां वो॑ वेद॒ राज्यं॒ त्रिष॑न्धे अरु॒णैः के॒तुभिः॑ स॒ह। ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः। त्रिष॑न्धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम् ॥
ई॒शाम् । व॒: । वे॒द॒ । राज्य॑म् । त्रिऽसं॑धे । अ॒रु॒णै: । के॒तुऽभि॑: । स॒ह । ये । अ॒न्तरि॑क्षे । ये । दि॒वि । पृ॒थि॒व्याम् । ये । च॒ । मा॒न॒वा: । त्रिऽसं॑धे: । ते । चेत॑सि । दु॒:ऽनामा॑न: । उप॑ । आ॒स॒ता॒म् ॥१२.२॥
Mantra 3
अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः। क्र॒व्यादो॒ वात॑रंहस॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ॥
अय॑:ऽमुखा: । सू॒चीऽमु॑खा: । अथो॒ इति॑ । वि॒क॒ङ्क॒तीऽमु॑खा: । क्र॒व्य॒ऽअद॑: । वात॑ऽरंहस: । आ । स॒ज॒न्तु॒ । अ॒मित्रा॑न् । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.३॥
Mantra 4
अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु। त्रिष॑न्धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥
अ॒न्त: । धे॒हि॒ । जा॒त॒ऽवे॒द॒: । आदि॑त्य । कुण॑पम् । ब॒हु । त्रिऽसं॑धे: । इ॒यम् । सेना॑ । सुऽहि॑ता । अ॒स्तु॒ । मे॒ । वशे॑ ॥१२.४॥
Mantra 5
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। अ॒यं ब॒लिर्व॒ आहु॑त॒स्त्रिष॑न्धे॒राहु॑तिः प्रि॒या ॥
उत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । अ॒यम् । ब॒लि: । व॒: । आऽहु॑त: । त्रिऽसं॑धे: । आऽहु॑ति: । प्रि॒या ॥१२.५॥
Mantra 6
शि॑तिप॒दी सं द्य॑तु शर॒व्ये॒यं चतु॑ष्पदी। कृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिष॑न्धेः स॒ह सेन॑या ॥
शि॒ति॒ऽप॒दी । सम् । द्य॒तु॒ । श॒र॒व्या᳡ । इ॒यम् । चतु॑:ऽपदी । कृत्ये॑ । अ॒मित्रे॑भ्य: । भ॒व॒ । त्रिऽसं॑धे: । स॒ह । सेन॑या ॥१२.६॥
Mantra 7
धू॑मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु। त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥
धू॒म॒ऽअ॒क्षी: । सम् । प॒त॒तु॒ । कृ॒धु॒ऽक॒र्णी । च॒ । क्रो॒श॒तु॒ । त्रिऽसं॑धे: । सेन॑या । जि॒ते । अ॒रु॒णा: । स॒न्तु॒ । के॒तव॑: ॥१२.७॥
Mantra 8
अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति। श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ॥
अव॑ । अ॒य॒न्ता॒म् । प॒क्षिण॑: । ये । वयां॑सि । अ॒न्तरि॑क्षे । दि॒वि । चर॑न्ति । श्वाप॑द: । मक्षि॑का: । सम् । र॒भ॒न्ता॒म् । आ॒म॒ऽअद॑: । गृध्रा॑: । कुण॑पे । र॒द॒न्ता॒म् ॥१२.८॥
Mantra 9
यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते। तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥
याम् । इन्द्रे॑ण । स॒म्ऽधाम् । स॒म्ऽअध॑त्था: । ब्रह्म॑णा । च॒ । बृ॒ह॒स्प॒ते॒ । तया॑ । अ॒हम् । इ॒न्द्र॒ऽसं॒धया॑ । सर्वा॑न् । दे॒वान् । इ॒ह । हु॒वे॒ । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.९॥
Mantra 10
बृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः। अ॑सुर॒क्षय॑णं व॒धं त्रिष॑न्धिं दि॒व्याश्र॑यन् ॥
बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । ऋष॑य: । ब्रह्म॑ऽसंशिता: । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् । त्रिऽसं॑धिम् । दि॒वि । आ । अ॒श्र॒य॒न् ॥१२.१०॥
Mantra 11
येना॒सौ गु॒प्त आ॑दि॒त्य उ॒भाविन्द्र॑श्च॒ तिष्ठ॑तः। त्रिष॑न्धिं दे॒वा अ॑भज॒न्तौज॑से च॒ बला॑य च ॥
येन॑ । अ॒सौ । गु॒प्त: । आ॒दि॒त्य: । उ॒भौ । इन्द्र॑: । च॒ । तिष्ठ॑त: । त्रिऽसं॑धिम् । दे॒वा: । अ॒भ॒ज॒न्त॒ । ओज॑से । च॒ । बला॑य । च॒ ॥१२.११॥
Mantra 12
सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥
सर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥
Mantra 13
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्। तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥
बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् । तेन॑ । अ॒हम् । अ॒मूम् । सेना॑म् । नि । लि॒म्पा॒मि॒ । बृ॒ह॒स्प॒ते॒ । अ॒मित्रा॑न् । ह॒न्मि॒ । ओज॑सा ॥१२.१३॥
Mantra 14
सर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट्कृतम्। इ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ॥
सर्वे॑ । दे॒वा: । अ॒ति॒ऽआय॑न्ति । ये । अ॒श्नन्ति॑ । वष॑ट्ऽकृतम् । इ॒माम् । जु॒ष॒ध्व॒म् । आऽहु॑तिम् । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.१४॥
Mantra 15
सर्वे॑ देवा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या। सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥
सर्वे॑ । दे॒वा: । अ॒ति॒ऽआय॑न्तु । त्रिऽसं॑धे: । आऽहु॑ति: । प्रि॒या । स॒म्ऽधाम् । म॒ह॒तीम् । र॒क्ष॒त॒ । यया॑ । अग्रे॑ । असु॑रा: । जि॒ता: ॥१२.१५॥
Mantra 16
वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु। इन्द्र॑ एषां बा॒हून्प्रति॑ भनक्तु॒ मा श॑कन्प्रति॒धामिषु॑म्। आ॑दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म् ॥
वा॒यु: । अ॒मित्रा॑णाम् । इ॒षु॒ऽअ॒ग्राणि॑ । आ । अ॒ञ्च॒तु॒ । इन्द्र॑: । ए॒षा॒म् । बा॒हून् । प्रति॑ । भ॒न॒क्तु॒ । मा । श॒क॒न् । प्र॒ति॒ऽधाम् । इषु॑म् । आ॒दि॒त्य: । ए॒षा॒म् । अ॒स्त्रम् । वि । ना॒श॒य॒तु॒ । च॒न्द्रमा॑: । यु॒ता॒म् । अग॑तस्य । पन्था॑म् ॥१२.१६॥
Mantra 17
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
यदि॑ । प्र॒ऽई॒यु: । दे॒व॒ऽपु॒रा: । ब्रह्म॑ । वर्मा॑णि । च॒क्रि॒रे । त॒नू॒ऽपान॑म् । प॒रि॒ऽपान॑म् । कृ॒ण्वा॒ना: । यत् । उ॒प॒ऽऊ॒चि॒रे । सर्व॑म् । तत् । अ॒र॒सम् । कृ॒धि॒ ॥१२.१७॥
Mantra 18
क्र॒व्यादा॑नुव॒र्तय॑न्मृ॒त्युना॑ च पु॒रोहि॑तम्। त्रिष॑न्धे॒ प्रेहि॒ सेन॑या जयामित्रा॒न्प्र प॑द्यस्व ॥
क्र॒व्य॒ऽअदा॑ । अ॒नु॒ऽव॒र्तय॑न् । मृ॒त्युना॑ । च॒ । पु॒र:ऽहि॑तम् । त्रिऽसं॑धे । प्र । इ॒हि॒ । सेन॑या । जय॑ । अ॒मित्रा॑न् । प्र । प॒द्य॒स्व॒ ॥१२.१८॥
Mantra 19
त्रिष॑न्धे॒ तम॑सा॒ त्वम॒मित्रा॒न्परि॑ वारय। पृ॑षदा॒ज्यप्र॑णुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
त्रिऽसं॑धे । तम॑सा । त्वम् । अ॒मित्रा॑न् । परि॑ । वा॒र॒य॒ । पृ॒ष॒दा॒ज्यऽप्र॑नुत्तानाम् । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥१२.१९॥
Mantra 20
शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः सिचः॑। मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां न्यर्बुदे ॥
शि॒ति॒ऽप॒दी । सम् । प॒त॒तु॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । मुह्य॑न्तु । अ॒द्य । अ॒मू: । सेना॑: । अ॒मित्रा॑णाम् । नि॒ऽअ॒र्बु॒दे॒ ॥१२.२०॥
Mantra 21
मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्येषां॒ वरं॑वरम्। अ॒नया॑ जहि॒ सेन॑या ॥
मू॒ढा: । अ॒मित्रा॑: । नि॒ऽअ॒र्बु॒दे॒ । ज॒हि । ए॒षा॒म् । वर॑म्ऽवरम् । अ॒नया॑ । ज॒हि॒ । सेन॑या ॥१२.२१॥
Mantra 22
यश्च॑ कव॒ची यश्चा॑कव॒चो॒मित्रो॒ यश्चाज्म॑नि। ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
य: । च॒ । क॒व॒ची । य: । च॒ । अ॒क॒व॒च: । अ॒मित्र॑: । य: । च॒ । अज्म॑नि । ज्या॒ऽपा॒शै: । क॒व॒च॒ऽपा॒शै: । अज्म॑ना । अ॒भिऽह॑त: । श॒या॒म् ॥१२.२२॥
Mantra 23
ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑। सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥
ये । व॒र्मिण॑: । ये । अ॒व॒र्माण॑: । अ॒मित्रा॑: । ये । च॒ । व॒र्मिण॑: । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । ह॒तान् । श्वान॑: । अ॒द॒न्तु॒ । भूम्या॑म् ॥१२.२३॥
Mantra 24
ये र॒थिनो॒ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑। सर्वा॑नदन्तु॒ तान्ह॒तान्गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥
ये । र॒थिन॑: । ये । अ॒र॒था: । अ॒सा॒दा: । ये । च॒ । सा॒दिन॑: । सर्वा॑न् । अ॒द॒न्तु॒ । तान् । ह॒तान् । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: ॥१२.२४॥
Mantra 25
स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्। विवि॑द्धा कक॒जाकृ॑ता ॥
स॒हस्र॑ऽकुणपा । शे॒ता॒म् । आ॒मि॒त्री । सेना॑ । स॒म्ऽअ॒रे । व॒धाना॑म् । विऽवि॑ध्दा । क॒क॒जाऽकृ॑ता ॥१२.२५॥
Mantra 26
म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
म॒र्मा॒विध॑म् । रोरु॑वतम् । सु॒ऽप॒र्णै: । अ॒दन्तु॑ । दु॒:ऽचित॑म् । मृ॒दि॒तम् । शया॑नम् । य: । इ॒माम् । प्र॒तीची॑म् । आऽहु॑तिम् । अ॒मित्र॑: । न॒: । युयु॑त्सति ॥१२.२६॥
Mantra 27
यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥
याम् । दे॒वा: । अ॒नु॒ऽतिष्ठ॑न्ति । यस्या॑: । न । अस्ति॑ । वि॒ऽराध॑नम् । तया॑ । इन्द्र॑: । ह॒न्तु॒ । वृ॒त्र॒ऽहा । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.२७॥