Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 13

Atharvaveda 11/10/13

10 Sukta
27 Mantra
11/10/13
Devata- त्रिषन्धिः Rishi- भृग्वङ्गिराः Chhanda- षट्पदा जगती Suktam- शत्रुनाशन सूक्त
Mantra with Swara
बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम्। तेना॒हम॒मूं सेनां॒ नि लि॑म्पामि बृहस्पते॒ऽमित्रा॑न्ह॒न्म्योज॑सा ॥

बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् । तेन॑ । अ॒हम् । अ॒मूम् । सेना॑म् । नि । लि॒म्पा॒मि॒ । बृ॒ह॒स्प॒ते॒ । अ॒मित्रा॑न् । ह॒न्मि॒ । ओज॑सा ॥१२.१३॥

Mantra without Swara
बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम्। तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान्हन्म्योजसा ॥

बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् । तेन । अहम् । अमूम् । सेनाम् । नि । लिम्पामि । बृहस्पते । अमित्रान् । हन्मि । ओजसा ॥१२.१३॥

Meaning
१. (आङ्गिरसः बृहस्पतिः) = शक्तिशाली ज्ञानीपुरुष ने (यम्) = जिस (असुरक्षयणं वधम्) = आसुरभावों के विनाशक आयुध (वज्रं असिञ्चत:) = क्रियाशीलता को अपने जीवन में सिक्त किया, (तेन) = उसी क्रियाशीलतारूप वन के द्वारा (अहम्) = मैं (अमूं सेनाम्) = उस शत्रुसेना को (निलिम्पामि) = नितरां छिन्न करता हूँ। हे (बृहस्पते) = प्रभो ! मैं अब (ओजसा) = ओजस्विता से (अमित्रान् हन्मि) = सब शत्रुओं को विनष्ट कर देता हूँ।

 
Essence
क्रियाशीलता रूप वन से आसुरभावों का विनाश करते हुए हम शत्रुसैन्य को छिन्न कर डालें।
Subject
अमित्रान् हन्मि ओजसा

We are thankful to https://vedicscriptures.in for providing us a substantial amount of data for this section of the Vedas.