Mantra 1
अग्ने॒ जाय॒स्वादि॑तिर्नाथि॒तेयं ब्र॑ह्मौद॒नं प॑चति पु॒त्रका॑मा। स॑प्तऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑ मन्थन्तु प्र॒जया॑ स॒हेह॑ ॥
अग्ने॑ । जाय॑स्व । अदि॑ति: । ना॒थि॒ता । इ॒यम् । ब्र॒ह्म॒ऽओ॒द॒नम् । प॒च॒ति॒ । पु॒त्रऽका॑मा । स॒प्त॒ऽऋ॒षय॑: । भू॒त॒ऽकृत॑: । ते । त्वा॒ । म॒न्थ॒न्तु॒ । प्र॒ऽजया॑ । स॒ह । इ॒ह ॥१.१॥
Mantra 2
कृ॑णु॒त धू॒मं वृ॑षणः सखा॒योऽद्रो॑घाविता॒ वाच॒मच्छ॑। अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वा अस॑हन्त॒ दस्यू॑न् ॥
कृ॒णु॒त । धू॒मम् । वृ॒ष॒ण॒: । स॒खा॒य॒: । अद्रो॑घऽअविता । वाच॑म् । अच्छ॑ । अ॒यम् । अ॒ग्नि: । पृ॒त॒ना॒षाट् । सु॒ऽवीर॑: । येन॑ । दे॒वा: । अस॑हन्त । दस्यु॑न् ॥१.२॥
Mantra 3
अग्नेऽज॑निष्ठा मह॒ते वी॒र्याय ब्रह्मौद॒नाय॒ पक्त॑वे जातवेदः। स॑प्तऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑जीजनन्न॒स्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ॥
अग्ने॑ । अज॑निष्ठा:: । म॒ह॒ते । वी॒र्या᳡य । ब्र॒ह्म॒ऽओद॒नाय॑ । पक्त॑वे । जा॒त॒ऽवे॒द॒: । स॒प्त॒ऽऋ॒षय॑: । भू॒त॒ऽकृत॑: । ते । त्वा॒ । अ॒जी॒ज॒न॒न् । अ॒स्यै । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥१.३॥
Mantra 4
समि॑द्धो अग्ने स॒मिधा॒ समि॑ध्यस्व वि॒द्वान्दे॒वान्य॒ज्ञियाँ॒ एह व॑क्षः। तेभ्यो॑ ह॒विः श्र॒पयं॑ जातवेद उत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
सम्ऽइ॑ध्द: । अ॒ग्ने॒ । स॒म्ऽइधा॑ । सम् । इ॒ध्य॒स्व॒ । वि॒द्वान् । दे॒वान् । य॒ज्ञिया॑न् । आ । इ॒ह । व॒क्ष: । तेभ्य॑: । ह॒वि: । श्र॒पय॑न् । जा॒त॒ऽवे॒द॒: । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ । रो॒ह॒य॒ । इ॒मम् ॥१.४॥
Mantra 5
त्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम्। अंशा॑ञ्जानीध्वं॒ वि भ॑जामि॒ तान्वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ॥
त्रे॒धा । भा॒ग: । निऽहि॑त: । य: । पु॒रा । व॒: । दे॒वाना॑म् । पि॒तॄ॒णाम् । मर्त्या॑नाम् । अंशा॑न् । जा॒नी॒ध्व॒म् । वि । भ॒जा॒मि॒ । तान् । व॒: । य: । दे॒वाना॑म् । स: । इ॒माम् । पा॒र॒या॒ति॒ ॥१.५॥
Mantra 6
अग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्युब्ज द्विष॒तः स॒पत्ना॑न्। इ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ॥
अग्ने॑ । सह॑स्वान् । अ॒भि॒ऽभू: । अ॒भि । इत् । अ॒सि॒ । नीच॑: । नि । उ॒ब्ज॒ । द्वि॒ष॒त: । स॒ऽपत्ना॑न् । इ॒यम् । मात्रा॑ । मीय॑माना । मि॒ता । च॒ । स॒ऽजा॒तान् । ते॒ । ब॒लि॒ऽहृत॑: । कृ॒णो॒तु॒ ॥१.६॥
Mantra 7
सा॒कं स॑जा॒तैः पय॑सा स॒हैध्युदु॑ब्जैनां मह॒ते वी॒र्याय। ऊ॒र्ध्वो नाक॒स्याधि॑ रोह वि॒ष्टपं॑ स्व॒र्गो लो॒क इति॒ यं वद॑न्ति ॥
सा॒कम् । स॒ऽजा॒तै: । पय॑सा । स॒ह । ए॒धि॒ । उत् । उ॒ब्ज॒ । ए॒ना॒म् । म॒ह॒ते । वी॒र्या᳡य । ऊ॒र्ध्व: । नाक॑स्य । अधि॑ । रो॒ह॒ । वि॒ष्टप॑म् । स्व॒:ऽग: । लो॒क: । इति॑ । यम् । वद॑न्ति ॥१.७॥
Mantra 8
इ॒यं म॒ही प्रति॑ गृह्णातु॒ चर्म॑ पृथि॒वी दे॒वी सु॑मन॒स्यमा॑ना। अथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥
इ॒यम् । म॒ही । प्रति॑ । गृ॒ह्णा॒तु॒ । चर्म॑ । पृ॒थि॒वी । दे॒वी । सु॒ऽम॒न॒स्यमा॑ना । अथ॑ । ग॒च्छे॒म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१.८॥
Mantra 9
ए॒तौ ग्रावा॑णौ स॒युजा॑ युङ्ग्धि॒ चर्म॑णि॒ निर्भि॑न्ध्यं॒शून्यज॑मानाय सा॒धु। अ॒व॒घ्न॒ती नि ज॑हि॒ य इ॒मां पृ॑त॒न्यव॑ ऊ॒र्ध्वं प्र॒जामु॑द्भर॒न्त्युदू॑ह ॥
ए॒तौ । ग्रावा॑णौ । स॒ऽयुजा॑ । यु॒ङ्ग्धि॒ । चर्म॑णि । नि: । भि॒न्धि॒ । अं॒शून् । यज॑मानाय । सा॒धु । अ॒व॒ऽघ्न॒ती । नि । ज॒हि॒ । ये । इ॒माम् । पृ॒त॒न्यव: । ऊ॒र्ध्वम् । प्र॒ऽजाम् । उ॒त्ऽभर॑न्ती । उत् । ऊ॒ह ॥१.९॥
Mantra 10
गृ॑हा॒ण ग्रावा॑णौ स॒कृतौ॑ वीर॒ हस्त॒ आ ते॑ दे॒वा य॒ज्ञिया॑ य॒ज्ञम॑गुः। त्रयो॒ वरा॑ यत॒मांस्त्वं वृ॑णी॒षे तास्ते॒ समृ॑द्धीरि॒ह रा॑धयामि ॥
गृ॒हा॒ण । ग्रावा॑णौ । स॒ऽकृतौ॑ । वी॒र॒ । हस्ते॑ । आ । ते॒ । दे॒वा: । य॒ज्ञिया॑: । य॒ज्ञम् । अ॒गु: । त्रय॑: । वरा॑: । य॒त॒मान् । त्वम् । वृ॒णी॒षे । ता: । ते॒ । सम्ऽऋ॑ध्दी: । इ॒ह । रा॒ध॒या॒मि॒ ॥१.१०॥
Mantra 11
इ॒यं ते॑ धी॒तिरि॒दमु॑ ते ज॒नित्रं॑ गृ॒ह्णातु॒ त्वामदि॑तिः॒ शूर॑पुत्रा। परा॑ पुनीहि॒ य इ॒मां पृ॑त॒न्यवो॒ऽस्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ॥
इ॒यम् । ते॒ । धी॒ति: । इ॒दम् । ऊं॒ इति॑ । ते॒ । ज॒नित्र॑म् । गृ॒ह्णातु॑ । त्वाम् । अदि॑ति: । शूर॑ऽपुत्रा । परा॑ । पु॒नी॒हि॒ । ये । इ॒माम् । पृ॒त॒न्यव॑: । अ॒स्यै । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥१.११॥
Mantra 12
उ॑पश्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥
उ॒प॒ऽश्व॒से । द्रु॒वये॑ । सी॒द॒त॒ । यू॒यम् । वि । वि॒च्य॒ध्व॒म् । य॒ज्ञि॒या॒स0952ग: । तुषै॑: । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.१२॥
Mantra 13
परे॑हि नारि॒ पुन॒रेहि॑ क्षि॒प्रम॒पां त्वा॑ गो॒ष्ठोऽध्य॑रुक्ष॒द्भरा॑य। तासां॑ गृह्णीताद्यत॒मा य॒ज्ञिया॒ अस॑न्वि॒भाज्य॑ धी॒रीत॑रा जहीतात् ॥
परा॑ । इ॒हि॒ । ना॒रि॒ । पुन॑: । आ । इ॒हि॒ । क्षि॒प्रम् । अ॒पाम् । त्वा॒ । गो॒ऽस्थ: । अधि॑ । अ॒रु॒क्ष॒त् । भरा॑य । तासा॑म् । गृ॒ह्णी॒ता॒त् । य॒त॒मा: । य॒ज्ञिया॑: । अस॑न् । वि॒ऽभाज्य॑ । धी॒री । इत॑रा: । ज॒ही॒ता॒त् ॥१.१३॥
Mantra 14
एमा अ॑गुर्यो॒षितः॒ शुम्भ॑माना॒ उत्ति॑ष्ठ नारि त॒वसं॑ रभस्व। सु॒पत्नी॒ पत्या॑ प्र॒जया॑ प्र॒जाव॒त्या त्वा॑गन्य॒ज्ञः प्रति॑ कु॒म्भं गृ॑भाय ॥
आ । इ॒मा: । अ॒गु॒: । यो॒षित॑: । शुम्भ॑माना: । उत् । ति॒ष्ठ॒ । ना॒रि॒ । त॒वस॑म् । र॒भ॒स्व॒ । सु॒ऽपत्नी॑ । पत्या॑ । प्र॒ऽजया॑ । प्र॒जाऽव॑ती । आ । त्वा॒ । अ॒ग॒न् । य॒ज्ञ: । प्रति॑ । कु॒म्भम् । गृ॒भा॒य॒ ॥१.१४॥
Mantra 15
ऊ॒र्जो भा॒गो निहि॑तो॒ यः पु॒रा व॒ ऋषि॑प्रशिष्टा॒प आ भ॑रै॒ताः। अ॒यं य॒ज्ञो गा॑तु॒विन्ना॑थ॒वित्प्र॑जा॒विदु॒ग्रः प॑शु॒विद्वी॑र॒विद्वो॑ अस्तु ॥
ऊ॒र्ज: । भा॒ग: । निऽहि॑त: । य: । पु॒रा । व॒: । ऋषि॑ऽप्रशिष्टा । अ॒प: । आ । भ॒र॒ । ए॒ता: । अ॒यम् । य॒ज्ञ: । गा॒तु॒ऽवित् । ना॒थ॒ऽवित् । प्र॒जा॒ऽवित् । उ॒ग्र: । प॒शु॒ऽवित् । वी॒र॒ऽवित् । व॒: । अ॒स्तु॒ ॥१.१५॥
Mantra 16
अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्। आ॑र्षे॒या दै॒वा अ॑भिसं॒गत्य॑ भा॒गमिमं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ॥
अग्ने॑ । च॒रु: । य॒ज्ञिय॑: । त्वा॒ । अधि॑ । अ॒रु॒क्ष॒त् । शुचि॑: । तपि॑ष्ठ: । तप॑सा । त॒प॒ । ए॒न॒म् । आ॒र्षे॒या: । दै॒वा: । अ॒भि॒ऽसं॒गत्य॑ । भा॒गम् । इ॒मम् । तपि॑ष्ठा: । ऋ॒तुऽभि॑: । त॒प॒न्तु॒ ॥१.१६॥
Mantra 17
शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः। अदुः॑ प्र॒जां ब॑हु॒लान्प॒शून्नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम् ॥
शु॒ध्दा: । पू॒ता: । यो॒षित॑: । य॒ज्ञिया॑: । इ॒मा: । आप॑: । च॒रुम् । अव॑ । स॒र्प॒न्तु॒ । शु॒भ्रा: । अदु॑: । प्र॒ऽजाम् । ब॒हु॒लान् । प॒शून् । न॒: । प॒क्ता । ओ॒द॒नस्य॑ । सु॒ऽकृता॑म् । ए॒तु॒ । लो॒कम् ॥१.१७॥
Mantra 18
ब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॒ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इ॒मे। अ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम् ॥
ब्रह्म॑णा । शु॒ध्दा: । उ॒त । पू॒ता: । घृ॒तेन॑ । सोम॑स्य । अं॒शव॑: । त॒ण्डु॒ला: । य॒ज्ञिया॑: । इ॒मे । अ॒प: । प्र । वि॒श॒त॒ । प्रति॑ । गृ॒ह्णा॒तु॒ । व॒: । च॒रु: । इ॒मम् । प॒क्त्वा । सु॒ऽकृता॑म् । ए॒ते॒ । लो॒कम् ॥१.१८॥
Mantra 19
उ॒रुः प्र॑थस्व मह॒ता म॑हि॒म्ना स॒हस्र॑पृष्ठः सुकृ॒तस्य॑ लो॒के। पि॑ताम॒हाः पि॒तरः॑ प्र॒जोप॒जाऽहं प॒क्ता प॑ञ्चद॒शस्ते॑ अस्मि ॥
उ॒रु: । प्र॒थ॒स्व॒ । म॒ह॒ता । म॒हि॒म्ना । स॒हस्र॑ऽपृष्ठ: । सु॒ऽकृ॒तस्य॑ । लो॒के । पि॒ता॒म॒हा: । पि॒तर॑: । प्र॒ऽजा । उ॒प॒ऽजा । अ॒हम् । प॒क्ता । प॒ञ्च॒ऽद॒श: । ते॒ । अ॒स्मि॒ ॥१.१९॥
Mantra 20
स॒हस्र॑पृष्ठः श॒तधा॑रो॒ अक्षि॑तो ब्रह्मौद॒नो दे॑व॒यानः॑ स्व॒र्गः। अ॒मूंस्त॒ आ द॑धामि प्र॒जया॑ रेषयैनान्बलिहा॒राय॑ मृडता॒न्मह्य॑मे॒व ॥
स॒हस्र॑ऽपृष्ठ: । श॒तऽधा॑र: । अक्षि॑त: । ब्र॒ह्म॒ऽओ॒द॒न: । दे॒व॒ऽयान॑: । स्व॒:ऽग: । अ॒मून् । ते॒ । आ । द॒धा॒मि॒ । प्र॒ऽजया॑ । रे॒ष॒य॒ । ए॒ना॒न् । ब॒लि॒ऽहा॒राय॑ । मृ॒ड॒ता॒त् । मह्य॑म् । ए॒व ॥१.२०॥
Mantra 21
उ॒देहि॒ वेदिं॑ प्र॒जया॑ वर्धयैनां नु॒दस्व॒ रक्षः॑ प्रत॒रं धे॑ह्येनाम्। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥
उ॒त्ऽएहि॑ । वेदि॑म् । प्र॒ऽजया॑ । व॒र्ध॒य॒ । ए॒ना॒म् । नु॒दस्व॑ । रक्ष॑: । प्र॒ऽत॒रम् । धे॒हि॒ । ए॒ना॒म् । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.२१॥
Mantra 22
अ॒भ्याव॑र्तस्व प॒शुभिः॑ स॒हैनां॑ प्र॒त्यङे॑नां दे॒वता॑भिः स॒हैधि॑। मा त्वा॒ प्राप॑च्छ॒पथो॒ माभि॑चा॒रः स्वे क्षेत्रे॑ अनमी॒वा वि रा॑ज ॥
अ॒भि॒ऽआव॑र्तस्व । प॒शुऽभि॑: । स॒ह । ए॒ना॒म् । प्र॒त्यङ् । ए॒ना॒म् । दे॒वता॑भि: । स॒ह । ए॒धि॒ । मा । त्वा॒ । प्र । आ॒प॒त् । श॒पथ॑: । मा । अ॒भि॒ऽचा॒र: । स्वे । क्षेत्रे॑ । अ॒न॒मी॒वा । वि । रा॒ज॒ ॥१.२२॥
Mantra 23
ऋ॒तेन॑ त॒ष्टा मन॑सा हि॒तैषा ब्र॑ह्मौद॒नस्य॒ विहि॑ता॒ वेदि॒रग्रे॑। अं॑स॒द्रीं शु॒द्धामुप॑ धेहि नारि॒ तत्रौ॑द॒नं सा॑दय दै॒वाना॑म् ॥
ऋ॒तेन॑ । त॒ष्टा । मन॑सा । हि॒ता । ए॒षा । ब्र॒ह्म॒ऽओ॒द॒नस्य॑ । विऽहि॑ता । वेदि॑: । अग्रे॑ । अं॒स॒द्रीम् । शु॒ध्दाम् । उप॑ । धे॒हि॒ । ना॒रि॒ । तत्र॑ । ओ॒द॒नम् । सा॒द॒य॒ । दै॒वाना॑म् ॥१.२३॥
Mantra 24
अदि॑ते॒र्हस्तां॒ स्रुच॑मे॒तां द्वि॒तीयां॑ सप्तऋ॒षयो॑ भूत॒कृतो॒ यामकृ॑ण्वन्। सा गात्रा॑णि वि॒दुष्यो॑द॒नस्य॒ दर्वि॒र्वेद्या॒मध्ये॑नं चिनोतु ॥
अदि॑ते: । हस्ता॑म् । स्रुच॑म् । ए॒ताम् । द्वि॒तीया॑म् । स॒प्त॒ऽऋ॒षय॑: । भू॒त॒ऽकृत॑: । याम् । अकृ॑ण्वन् । सा । गात्रा॑णि । वि॒दुषी॑ । ओ॒द॒नस्य॑ । दर्वि॑: । वेद्या॑म् । अधि॑ । ए॒न॒म् । चि॒नो॒तु॒ ॥१.२४॥
Mantra 25
शृ॒तं त्वा॑ ह॒व्यमुप॑ सीदन्तु दै॒वा निः॒सृप्या॒ग्नेः पुन॑रेना॒न्प्र सी॑द। सोमे॑न पू॒तो ज॒ठरे॑ सीद ब्र॒ह्मणा॑मार्षे॒यास्ते॒ मा रि॑षन्प्राशि॒तारः॑ ॥
शृ॒तम् । त्वा॒ । ह॒व्यम् । उप॑ । सी॒द॒न्तु॒ । दै॒वा: । नि॒:ऽसृप्य॑ । अ॒ग्ने: । पुन॑: । ए॒ना॒न् । प्र । सी॒द॒ । सोमे॑न । पू॒त: । ज॒ठरे॑ । सी॒द॒ । ब्र॒ह्मणा॑म् । आ॒र्षे॒या: । ते॒ । मा । रि॒ष॒न् । प्र॒ऽअ॒शि॒तार॑: ॥१.२५
Mantra 26
सोम॑ राजन्त्सं॒ज्ञान॒मा व॑पैभ्यः॒ सुब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्। ऋषी॑नार्षे॒यांस्तप॒सोऽधि॑ जा॒तान्ब्र॑ह्मौद॒ने सु॒हवा॑ जोहवीमि ॥
सोम॑ । रा॒ज॒न् । स॒म्ऽज्ञान॑म् । आ । व॒प॒ । ए॒भ्य॒: । सुऽब्रा॒ह्म॒णा: । य॒त॒मे । त्वा॒ । उ॒प॒ऽसीदा॑न् । ऋषी॑न् ।आ॒र्षे॒यान् । तप॑स: । अधि॑ । जा॒तान् । ब्र॒ह्म॒ऽओ॒द॒ने । सु॒ऽहवा॑ । जो॒ह॒वी॒मि॒ ॥१.२६॥
Mantra 27
शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दादि॒दं मे॑ ॥
शु॒ध्दा: । पू॒ता: । यो॒षित॑: । य॒ज्ञिया॑: । इ॒मा: । ब्र॒ह्मणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑म: । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒: । अ॒हम् । इन्द्र॑: । म॒रुत्वा॑न् । स: । द॒दा॒त् । इ॒दम् । मे॒ ॥१.२७॥
Mantra 28
इ॒दं मे॒ ज्योति॑र॒मृतं॒ हिर॑ण्यं प॒क्वं क्षेत्रा॑त्काम॒दुघा॑ म ए॒षा। इ॒दं धनं॒ नि द॑धे ब्राह्म॒णेषु॑ कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ॥
इ॒दम् । मे॒ । ज्योति॑: । अ॒मृत॑म् । हिर॑ण्यम् । प॒क्वम् । क्षेत्रा॑त् । का॒म॒ऽदुघा॑ । मे॒ । ए॒षा । इ॒दम् । धन॑म् । नि । द॒धे॒ । ब्रा॒ह्म॒णेषु॑ । कृ॒ण्वे । पन्था॑म् । पि॒तृषु॑ । य: । स्व॒:ऽग: ॥१.२८॥
Mantra 29
अ॒ग्नौ तुषा॒ना व॑प जा॒तवे॑दसि प॒रः क॒म्बूकाँ॒ अप॑ मृड्ढि दू॒रम्। ए॒तं शु॑श्रुम गृहरा॒जस्य॑ भा॒गमथो॑ विद्म॒ निरृ॑तेर्भाग॒धेय॑म् ॥
अ॒ग्नौ । तुषा॑न् । आ । व॒प॒ । जा॒तऽवे॑दसि । प॒र: । क॒म्बूका॑न् । अप॑ । मृ॒ड्ढि॒ । दू॒रम् । ए॒तम् । शु॒श्रु॒म॒ । गृ॒ह॒ऽरा॒जस्य॑ । भा॒गम् । अथो॒ इति॑ । वि॒द्म॒ । नि:ऽऋ॑ते: । भा॒ग॒ऽधेय॑म् ॥१.२९॥
Mantra 30
श्राम्य॑तः॒ पच॑तो विद्धि सुन्व॒तः पन्थां॑ स्व॒र्गमधि॑ रोहयैनम्। येन॒ रोहा॒त्पर॑मा॒पद्य॒ यद्वय॑ उत्त॒मं नाकं॑ पर॒मं व्योम ॥
श्राम्य॑त: । पच॑त: । वि॒ध्दि॒ । सु॒न्व॒त: । पन्था॑म् । स्व॒:ऽगम् । अधि॑ । रो॒ह॒य॒ । ए॒न॒म् । येन॑ । रोहा॑त् । पर॑म् । आ॒ऽपद्य॑ । यत् । वय॑: । उ॒त्ऽत॒मम् । नाक॑म् । प॒र॒मम् । विऽओ॑म ॥१.३०॥
Mantra 31
ब॒भ्रेर॑ध्वर्यो॒ मुख॑मे॒तद्वि मृ॒ड्ढ्याज्या॑य लो॒कं कृ॑णुहि प्रवि॒द्वान्। घृ॒तेन॒ गात्रानु॒ सर्वा॒ वि मृ॑ड्ढि कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ॥
ब॒भ्रे: । अ॒ध्व॒र्यो॒ इति॑ । मुख॑म् । ए॒तत् । वि । मृ॒ड्ढि॒ ।आज्या॑य । लो॒कम् । कृ॒णु॒हि॒ । प्र॒ऽवि॒द्वान् । घृ॒तेन॑ । गात्रा॑ । अनु॑ । सर्वा॑ । वि । मृ॒ड्ढि॒ । कृ॒ण्वे । पन्था॑म् । पि॒तृषु॑ । य: । स्व॒:ऽग: ॥१.३१॥
Mantra 32
बभ्रे॒ रक्षः॑ स॒मद॒मा व॑पै॒भ्योऽब्रा॑ह्मणा यत॒मे त्वो॑प॒सीदा॑न्। पु॑री॒षिणः॒ प्रथ॑मानाः पु॒रस्ता॑दार्षे॒यास्ते॒ मा रि॑षन्प्राशि॒तारः॑ ॥
ब॒भ्रे । रक्ष॑: । स॒ऽमद॑म् । आ । व॒प॒ । ए॒भ्य॒: । अब्रा॑ह्मणा: । य॒त॒मे । त्वा॒ । उ॒प॒ऽसीदा॑न् । पु॒रीषिण॑: । प्रथ॑माना: । पु॒रस्तात् । आ॒र्षे॒या: । ते॒ । मा । रि॒ष॒न् । प्र॒ऽअ॒शि॒तार॑: ॥१.३२॥
Mantra 33
आ॑र्षे॒येषु॒ नि द॑ध ओदन त्वा॒ नाना॑र्षेयाणा॒मप्य॒स्त्यत्र॑। अ॒ग्निर्मे॑ गो॒प्ता म॒रुत॑श्च॒ सर्वे॒ विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒क्वम् ॥
आ॒र्षे॒येषु॑ । नि । द॒धे॒ । ओ॒द॒न॒ । त्वा॒ । न । अना॑र्षेयाणाम् । अपि॑ । अ॒स्ति॒ । अत्र॑ । अ॒ग्नि: । मे॒ । गो॒प्ता । म॒रुत॑: । च॒ । सर्वे॑ । विश्वे॑ । दे॒वा: । अ॒भि । र॒क्ष॒न्तु॒ । प॒क्वम् ॥१.३३॥
Mantra 34
य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्। प्र॑जामृत॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥
य॒ज्ञम् । दुहा॑नम् । सद॑म् । इत् । प्रऽपी॑नम् । पुमां॑सम् । धे॒नुम् । सद॑नम् । र॒यी॒णाम् । प्र॒जा॒ऽअ॒मृ॒त॒त्वम् । उ॒त । दी॒र्घम् । आयु॑: । रा॒य: । च॒ । पोषै॑: । उप॑ । त्वा॒ । स॒दे॒म॒ ॥१.३४॥
Mantra 35
वृ॑ष॒भोसि॑ स्व॒र्ग ऋषी॑नार्षे॒यान्ग॑च्छ। सु॒कृतां॑ लो॒के सी॑द॒ तत्र॑ नौ संस्कृ॒तम् ॥
वृ॒ष॒भ: । अ॒सि॒ । स्व॒:ऽग: । ऋषी॑न् । आ॒र्षे॒यान् । ग॒च्छ॒ । सु॒ऽकृता॑म् । लो॒के । सी॒द॒ । तत्र॑ । नौ॒ । सं॒स्कृ॒तम् ॥१.३५॥
Mantra 36
स॒माचि॑नुष्वानुस॒म्प्रया॒ह्यग्ने॑ प॒थः क॑ल्पय देव॒याना॑न्। ए॒तैः सु॑कृ॒तैरनु॑ गच्छेम य॒ज्ञं नाके॒ तिष्ठ॑न्त॒मधि॑ स॒प्तर॑श्मौ ॥
स॒म्ऽआचि॑नुष्व । अ॒नु॒ऽसं॒प्रया॑हि । अ॒ग्ने॒ । प॒थ: । क॒ल्प॒य॒ । दे॒व॒ऽयाना॑न् । ए॒तै: । सु॒ऽकृ॒तै: । अनु॑ । ग॒च्छे॒म॒ । य॒ज्ञम् । नाके॑ । तिष्ठ॑न्तम् । अधि॑ । स॒प्तऽर॑श्मौ ॥१.३६॥
Mantra 37
येन॑ दे॒वा ज्योति॑षा॒ द्यामु॒दाय॑न्ब्रह्मौद॒नं प॒क्त्वा सु॑कृ॒तस्य॑ लो॒कम्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्वरा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ॥
येन॑ । दे॒वा: । ज्योति॑षा । द्याम् । उ॒त्ऽआय॑न् । ब्र॒ह्म॒ऽओ॒द॒नम् । प॒क्त्वा । सु॒ऽकृ॒तस्य॑ । लो॒कम् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । स्व॑: । आ॒ऽरोह॑न्त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् ॥१.३७॥