Mantra 1
अघाय॒तामपि॑ नह्या॒ मुखा॑नि स॒पत्ने॑षु॒ वज्र॑मर्पयै॒तम्। इन्द्रे॑ण द॒त्ता प्र॑थ॒मा श॒तौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गा॒तुः ॥
अ॒घ॒ऽय॒ताम् । अपि॑ । न॒ह्य॒ । मुखा॑नि । स॒ऽपत्ने॑षु । वज्र॑म् । अ॒र्प॒य॒ । ए॒तम् । इन्द्रे॑ण । द॒त्ता । प्र॒थ॒मा । श॒तऽओ॑दना । भ्रा॒तृ॒व्य॒ऽघ्नी । यज॑मानस्य । गा॒तु: ॥९.१॥
Mantra 2
वेदि॑ष्टे॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते। ए॒षा त्वा॑ रश॒नाग्र॑भी॒द्ग्रावा॑ त्वै॒षोऽधि॑ नृत्यतु ॥
वेदि॑: । ते॒ । चर्म॑ । भ॒व॒तु॒ । ब॒र्हि: । लोमा॑नि । यानि॑ । ते॒ । ए॒षा । त्वा॒ । र॒श॒ना । अ॒ग्र॒भी॒त् । ग्रावा॑ । त्वा॒ । ए॒ष: । अधि॑ । नृ॒त्य॒तु॒ ॥९.२॥
Mantra 3
बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जि॒ह्वा सं मा॑र्ष्ट्वघ्न्ये। शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ॥
बाला॑: । ते॒ । प्र॒ऽउक्ष॑णी: । स॒न्तु॒ । जि॒ह्वा । सम् । मा॒र्ष्टु॒ । अ॒घ्न्ये॒ । शु॒ध्दा । त्वम् । य॒ज्ञिया॑ । भू॒त्वा । दिव॑म् । प्र । इ॒हि॒ । श॒त॒ऽओ॒द॒ने॒ ॥९.३॥
Mantra 4
यः श॒तौद॑नां॒ पच॑ति काम॒प्रेण॒ स क॑ल्पते। प्री॒ता ह्यस्य ऋ॒त्विजः॒ सर्वे॒ यन्ति॑ यथाय॒थम् ॥
य: । श॒तऽओ॑दनाम् । पच॑ति । का॒म॒ऽप्रेण॑ । स: । क॒ल्प॒ते॒ । प्री॒ता: । हि । अ॒स्य॒ । ऋ॒त्विज॑: । सर्वे॑ । यन्ति॑ । य॒था॒ऽय॒थम् ॥९.४॥
Mantra 5
स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः। अ॑पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स: । स्व॒:ऽगम् । आ । रो॒ह॒ति॒ । यत्र॑ । अ॒द: । त्रि॒ऽदि॒वम् । दि॒व: । अ॒पू॒पऽना॑भिम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.५॥
Mantra 6
स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः। हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स: । तान् । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: । हिर॑ण्यऽज्योतिषम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.६॥
Mantra 7
ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ॥
ये । ते॒ । दे॒वि॒ । श॒मि॒तार॑: । प॒क्तार॑: । ये । च॒ । ते॒ । जना॑: । ते । त्वा॒ । सर्वे॑ । गो॒प्स्य॒न्ति॒ । मा । ए॒भ्य॒: । भै॒षी॒: । श॒त॒ऽओ॒द॒ने॒ ॥९.७॥
Mantra 8
वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा। आ॑दि॒त्याः प॒श्चाद्गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ॥
वस॑व: । त्वा॒ । द॒क्षि॒ण॒त: । उ॒त्त॒रात् । म॒रुत॑: । त्वा॒ । आ॒दि॒त्या: । प॒श्चात् । गो॒प्स्य॒न्ति॒ । सा । अ॒ग्नि॒ऽस्तो॒मम् । अति॑ । द्र॒व॒ ॥९.८॥
Mantra 9
दे॒वाः पि॒तरो॑ मनु॒ष्या गन्धर्वाप्स॒रस॑श्च॒ ये। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ साति॑रा॒त्रमति॑ द्रव ॥
दे॒वा: । पि॒तर॑: । म॒नु॒ष्या᳡: । ग॒न्ध॒र्व॒ऽअ॒प्सरस॑: । च॒ । ये । ते । त्वा॒ । सर्वे॑ । गो॒प्स्य॒न्ति॒ । सा । अ॒ति॒ऽरा॒त्रम् । अति॑ । द्र॒व॒ ॥९.९॥
Mantra 10
अ॒न्तरि॑क्षं॒ दिवं॒ भूमि॑मादि॒त्यान्म॒रुतो॒ दिशः॑। लो॒कान्त्स सर्वा॑नाप्नोति॒ यो ददा॑ति श॒तौद॑नाम् ॥
अ॒न्तरि॑क्षम् । दिव॑म् । भूमि॑म् । आ॒दि॒त्यान् । म॒रुत॑: । दिश॑: । लो॒कान् । स: । सर्वा॑न् । आ॒प्नो॒ति॒ । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.१०॥
Mantra 11
घृ॒तं प्रो॒क्षन्ती॑ सु॒भगा॑ दे॒वी दे॒वान्ग॑मिष्यति। प॒क्तार॑मघ्न्ये॒ मा हिं॑सी॒र्दिवं॒ प्रेहि॑ शतौदने ॥
घृ॒तम् । प्र॒ऽउ॒क्षन्ती॑ । सु॒ऽभगा॑ । दे॒वी । दे॒वान् । ग॒मि॒ष्य॒ति॒ । प॒क्तार॑म् । अ॒घ्न्ये॒ । मा । हिं॒सी॒: । दिव॑म् । प्र । इ॒हि॒ । श॒त॒ऽओ॒द॒ने॒ ॥९.११॥
Mantra 12
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑। तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
ये । दे॒वा: । दि॒वि॒ऽसद॑: । अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । ये । च॒ । इ॒मे । भूम्या॑म् । अधि॑ । तेभ्य॑: । त्वम् । धु॒क्ष्व॒ । स॒र्व॒दा । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.१२॥
Mantra 13
यत्ते॒ शिरो॒ यत्ते॒ मुखं॒ यौ कर्णौ॒ ये च॑ ते॒ हनू॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यत् । ते॒ । शिर॑: । यत् । ते॒ । मुख॑म् । यौ । कर्णौ॑ । ये इति॑ । च॒ । ते॒ । हनू॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१३॥
Mantra 14
यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ तेऽक्षि॑णी। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यौ । ते॒ । ओष्ठौ॑ । ये । इति॑ । नासि॑के॒ । इति॑ । ये इति॑ । शृङ्गे॒ इति॑ । ये इति॑ । च॒ । ते॒ । अक्षि॑णी॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१४॥
Mantra 15
यत्ते॑ क्लो॒मा यद्धृद॑यं पुरी॒तत्स॒हक॑ण्ठिका। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यत् । ते॒ । क्लो॒मा । यत् । हृद॑यम् । पु॒रि॒ऽतत् । स॒हऽक॑ण्ठिका । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१५॥
Mantra 16
यत्ते॒ यकृ॒द्ये मत॑स्ने॒ यदा॒न्त्रं याश्च॑ ते॒ गुदाः॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यत् । ते॒ । यकृ॑त् । ये इति॑ । मत॑स्ने॒ इति॑ । यत् । आ॒न्त्रम् । या: । च॒ । ते॒ । गुदा॑:। अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१६॥
Mantra 17
यस्ते॑ प्ला॒शिर्यो व॑नि॒ष्ठुर्यौ कु॒क्षी यच्च॒ चर्म॑ ते। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
य: । ते॒ । प्ला॒शि: । य: । व॒नि॒ष्ठु: । यौ । कु॒क्षी इति॑ । यत् । च॒ । चर्म॑ । ते॒ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१७॥
Mantra 18
यत्ते॑ म॒ज्जा यदस्थि॒ यन्मां॒सं यच्च॒ लोहि॑तम्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यत् । ते॒ । म॒ज्जा । यत् । अस्थि॑ । यत् । मां॒सम् । यत् । च॒ । लोहि॑तम् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१८॥
Mantra 19
यौ ते॑ बा॒हू ये दो॒षणी॒ यावंसौ॒ या च॑ ते क॒कुत्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यौ । ते॒ । बा॒हू इति॑ । ये इति॑ । दो॒षणी॒ इति॑ । यौ । अंसौ॑ । या । च॒ । ते॒ । क॒कुत् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१९॥
Mantra 20
यास्ते॑ ग्री॒वा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पर्श॑वः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
या: । ते॒ । ग्री॒वा: । ये । स्क॒न्धा: । या: । पृ॒ष्टी: । या: । च॒ । पर्श॑व: । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.२०॥
Mantra 21
यौ त॑ उ॒रू अ॑ष्ठी॒वन्तौ॒ ये श्रोणी॒ या च॑ ते भ॒सत्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यौ । ते॒ । ऊ॒रू इति॑ । अ॒ष्ठी॒वन्तौ॑ । ये इति॑ । श्रोणी॒ इति॑ । या । च॒ । ते॒ । भ॒सत् । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.२१॥
Mantra 22
यत्ते॒ पुच्छं॒ ये ते॒ बाला॒ यदूधो॒ ये च॑ ते॒ स्तनाः॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यत् । ते॒ । पुच्छ॑म् । ये । ते॒ । बाला॑: । यत् । ऊध॑: । ये । च॒ । । ते॒ । स्तना॑: । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.२२॥
Mantra 23
यास्ते॒ जङ्घा॒ याः कुष्ठि॑का ऋ॒च्छरा॒ ये च॑ ते श॒फाः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
या: । ते॒ । जङ्घा॑: । या: । कुष्ठि॑का: । ऋ॒च्छरा॑: । ये । च॒ । ते॒ । श॒फा । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑: ॥९.२३॥
Mantra 24
यत्ते॒ चर्म॑ शतौदने॒ यानि॒ लोमा॑न्यघ्न्ये। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
यत् । ते॒ । चर्म॑ । श॒त॒ऽओ॒द॒ने॒ । यानि॑ । लोमा॑नि । अ॒घ्न्ये॒ । आ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि: । अथो॒ इति॑ । मधु॑ ॥९.२४॥
Mantra 25
क्रो॒डौ ते॑ स्तां पुरो॒डाशा॒वाज्ये॑ना॒भिघा॑रितौ। तौ प॒क्षौ दे॑वि कृ॒त्वा सा प॒क्तारं॒ दिवं॑ वह ॥
क्रो॒डौ । ते॒ । स्ता॒म् । पु॒रो॒डाशौ॑ । आज्ये॑न । अ॒भिऽधा॑रितौ । तौ । प॒क्षौ । दे॒वि॒ । कृ॒त्वा । सा । प॒क्तार॑म् । दिव॑म् । व॒ह॒ ॥९.२५॥
Mantra 26
उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि॒ यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑। यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥
उ॒लूख॑ले । मुस॑ले । य: । च॒ । चर्म॑णि । य: । वा॒ । शूर्पे॑ । त॒ण्डु॒ल: । कण॑: । यम् । वा॒ । वात॑: । मा॒त॒रिश्वा॑ । पव॑मान: । म॒माथ॑ । अ॒ग्नि: । तत् । होता॑ । सुऽहु॑तम् । कृ॒णो॒तु॒ ॥९.२६॥
Mantra 27
अ॒पो दे॒वीर्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक्सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
अ॒प: । दे॒वी: । मधु॑ऽमती: । घृ॒त॒ऽश्चुत॑: । ब्र॒ह्माणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑म: । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒: । अ॒हम् । तत् । मे॒ । सर्व॑म् । सम् । प॒द्य॒ता॒म् । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥९.२७॥