Mantra 1
यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति। स्वर्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
य: । भू॒तम् । च॒ । भव्य॑म् । च॒ । सर्व॑म् । य: । च॒ । अ॒धि॒ऽतिष्ठ॑ति । स्व᳡: । यस्य॑ । च॒ । केव॑लम् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥८.१॥
Mantra 2
स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः। स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥
स्क॒म्भेन॑ । इ॒मे इति॑ । विस्त॑भिते॒ इति॒ विऽस्त॑भिते । द्यौ: । च॒ । भूमि॑: । च॒ । ति॒ष्ठ॒त॒: । स्क॒म्भे । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । नि॒ऽमि॒षत् । च॒ । यत् ॥८.२॥
Mantra 3
ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न्न्यन्या अ॒र्कम॒भितो॑ऽविशन्त। बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश ॥
ति॒स्र: । ह॒ । प्र॒ऽजा: । अ॒ति॒ऽआ॒यम् । आ॒य॒न् । नि । अ॒न्या: । अ॒र्कम् । अ॒भित॑: । अ॒वि॒श॒न्त॒ । बृ॒हन् । ह॒ । त॒स्थौ॒ । रज॑स: । वि॒ऽमान॑: । हरि॑त: । हरि॑णी: । आ । वि॒वे॒श॒ ॥८.३॥
Mantra 4
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥
द्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥
Mantra 5
इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड्य॒मा एक॑ एक॒जः। तस्मि॑न्हापि॒त्वमि॑च्छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥
इ॒दम् । स॒वि॒त॒: । वि । जा॒नी॒हि॒ । षट् । य॒मा: । एक॑: । ए॒क॒ऽज: । तस्मि॑न् । ह॒ । अ॒पिऽत्वम् । इ॒च्छ॒न्ते॒ । य: । ए॒षा॒म् । एक॑: । ए॒क॒ऽज: ॥८.५॥
Mantra 6
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्। तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥
आ॒वि: । सत् । निऽहि॑तम् । गुहा॑ । जर॑त् । नाम॑ । म॒हत् । प॒दम् । तत्र॑ । इ॒दम् । सर्व॑म् । आर्पि॑तम् । एज॑त् । प्रा॒णत् । प्रति॑ऽस्थितम् ॥८.६॥
Mantra 7
एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॑श्चा। अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व तद्ब॑भूव ॥
एक॑ऽचक्रम् । व॒र्त॒ते॒ । एक॑ऽनेमि । स॒हस्र॑ऽअक्षरम् । प्र । पु॒र: । नि । प॒श्चा । अ॒र्धेन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अ॒स्य॒ । अ॒र्धम् । क्व᳡ । तत् । ब॒भू॒व॒ ॥८.७॥
Mantra 8
प॑ञ्चवा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति। अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः ॥
प॒ञ्च॒ऽवा॒ही॒ । व॒ह॒ति॒ । अग्र॑म् । ए॒षा॒म् । प्रष्ट॑य: । यु॒क्ता: । अ॒नु॒ऽसंव॑हन्ति । अया॑तम् । अ॒स्य॒ । द॒दृ॒शे । न । या॒तम् । पर॑म् । नेदी॑य: । अव॑रम् । दवी॑य: ॥८.८॥
Mantra 9
ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम्। तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ॥
ति॒र्यक्ऽबि॑ल: । च॒म॒स: । ऊ॒र्ध्वऽबु॑ध्न: । तस्मि॑न् । यश॑: । निऽहि॑तम् । वि॒श्वऽरू॑पम् । तत् । आ॒स॒ते॒ । ऋष॑य: । स॒प्त । सा॒कम् । ये । अ॒स्य । गो॒पा । म॒ह॒त: । ब॒भू॒वु: ॥८.९॥
Mantra 10
या पु॒रस्ता॑द्यु॒ज्यते॒ या च॑ प॒श्चाद्या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑। यया॑ य॒ज्ञः प्राङ्ता॒यते॒ तां त्वा॑ पृच्छामि कत॒मा सा ऋ॒चाम् ॥
या । पु॒रस्ता॑त् । यु॒ज्यते॑ । या । च॒ । प॒श्चात् । या । वि॒श्वत॑: । यु॒ज्यते॑ । या । च॒ । सर्वत॑: । यया॑ । य॒ज्ञ: । प्राङ् । ता॒यते॑ । ताम् । त्वा॒ । पृ॒च्छा॒मि॒ । क॒त॒मा । सा । ऋ॒चाम् ॥८.१०॥
Mantra 11
यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्। तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥
यत् । एज॑ति । पत॑ति । यत् । च॒ । तिष्ठ॑ति । प्रा॒णत् । अप्रा॑णत् । नि॒ऽमि॒षत् । च॒ । यत् । भुव॑त् । तत् । दा॒धा॒र॒ । पृ॒थि॒वीम् । वि॒श्वऽरू॑पम् । तत् । स॒म्ऽभूय॑ । भ॒व॒ति॒ । एक॑म् । ए॒व ॥८.११॥
Mantra 12
अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते। ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ॥
अ॒न॒न्तम् । विऽत॑तम् । पु॒रु॒ऽत्रा । अ॒न॒न्तम् । अन्त॑ऽवत् । च॒ । सम॑न्ते॒ इति॑ सम्ऽअ॑न्ते । ते इति॑ । ना॒क॒ऽपा॒ल: । च॒र॒ति॒ । वि॒ऽचि॒न्वन् । वि॒द्वान् । भू॒तम् । उ॒त । भव्य॑म् । अ॒स्य॒ ॥८.१२॥
Mantra 13
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरदृ॑श्यमानो बहु॒धा वि जा॑यते। अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥
प्र॒जाऽप॑ति: । च॒र॒ति॒ । गर्भे॑ । अ॒न्त: । अदृ॑श्यमान: । ब॒हु॒ऽधा । वि । जा॒य॒ते॒ । अ॒र्धेन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अ॒स्य॒ । अ॒र्धम् । क॒त॒म: । स: । के॒तु: ॥८.१३॥
Mantra 14
ऊ॒र्ध्वं भर॑न्तमुद॒कं कु॒म्भेने॑वोदहा॒र्यम्। पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सर्वे॒ मन॑सा विदुः ॥
ऊ॒र्ध्वम् । भर॑न्तम् । उ॒द॒कम् । कु॒म्भेन॑ऽइव । उ॒द॒ऽहा॒र्य᳡म् । पश्य॑न्ति । सर्वे॑ । चक्षु॑षा । न । सर्वे॑ । मन॑सा । वि॒दु॒: ॥८.१४॥
Mantra 15
दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते। म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ॥
दू॒रे । पू॒र्णेन॑ । व॒स॒ति॒ । दू॒रे । ऊ॒नेन॑ । ही॒य॒ते॒ । म॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तस्मै॑ । ब॒लिम् । रा॒ष्ट्र॒ऽभृत॑: । भ॒र॒न्ति॒ ॥८.१५॥
Mantra 16
यतः॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति। तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥
यत॑: । सूर्य॑: । उ॒त्ऽएति॑ । अस्त॑म् । यत्र॑ । च॒ । गच्छ॑ति । तत् । ए॒व । म॒न्ये॒ । अ॒हम् । ज्ये॒ष्ठम् । तत् । ऊं॒ इति॑ । न । अति॑ । ए॒ति॒ । किम् । च॒न ॥८.१६॥
Mantra 17
ये अ॒र्वाङ्मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति। आ॑दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम् ॥
ये । अ॒र्वाङ् । मध्ये॑ । उ॒त । वा॒ । पु॒रा॒णम् । वेद॑म् । वि॒द्वांस॑म् । अ॒भित॑: । वद॑न्ति । आ॒दि॒त्यम् । ए॒व । ते । परि॑ । व॒द॒न्ति॒ । सर्वे॑ । अ॒ग्निम् । द्वि॒तीय॑म् । त्रि॒ऽवृत॑म् । च॒ । हं॒सम् ॥८.१७॥
Mantra 18
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ॥
स॒ह॒स्र॒ऽअ॒ह्न्यम् । विऽय॑तौ । अ॒स्य॒ । प॒क्षौ । हरे॑: । हं॒सस्य॑ । पत॑त: । स्व॒:ऽगम् । स: । दे॒वान् । सर्वा॑न् । उर॑सि । उ॒प॒ऽदद्य॑ ।स॒म्ऽपश्य॑न् । या॒ति॒ । भुव॑नानि । विश्वा॑ ॥८.१८॥
Mantra 19
स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति। प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥
स॒त्येन॑ । ऊ॒र्ध्व: । त॒प॒ति॒ । ब्रह्म॑णा । अ॒र्वाङ् । वि । प॒श्य॒ति॒ । प्रा॒णेन॑ । ति॒र्यङ् । प्र । अ॒न॒ति॒ । यस्मि॑न् । ज्ये॒ष्ठम् । अधि॑ । श्रि॒तम् ॥८.१९॥
Mantra 20
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
य: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥
Mantra 21
अ॒पादग्रे॒ सम॑भव॒त्सो अग्रे॒ स्वराभ॑रत्। चतु॑ष्पाद्भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम् ॥
अ॒पात् । अग्रे॑ । सम् । अ॒भ॒व॒त् । स: । अग्रे॑ । स्व᳡: । आ । अ॒भ॒र॒त् । चतु॑:ऽपात् । भू॒त्वा । भोग्य॑: । सर्व॑म् । आ । अ॒द॒त्त॒ । भोजन॑म् ॥८.२१॥
Mantra 22
भोग्यो॑ भव॒दथो॒ अन्न॑मदद्ब॒हु। यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म् ॥
भोग्य॑: । भ॒व॒त् । अथो॒ इति॑ । अन्न॑म् । अ॒द॒त् । ब॒हु । य: । दे॒वम् । उ॒त्त॒रऽव॑न्तम् । उ॒प॒ऽआसा॑तै । स॒ना॒तन॑म् ॥८.२२॥
Mantra 23
स॑ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त्पुन॑र्णवः। अ॑होरा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ॥
स॒ना॒तन॑म् । ए॒न॒म् । आ॒हु॒: । उ॒त । अ॒द्य । स्या॒त् । पुन॑:ऽनव: । अ॒हो॒रा॒त्रे इति॑ । प्र । जा॒ये॒ते॒ इति॑ । अ॒न्य: । अ॒न्यस्य॑ । रू॒पयो॑: ॥८.२३॥
Mantra 24
श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्। तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चत ए॒ष ए॒तत् ॥
श॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । अ॒स॒म्ऽख्ये॒यम् । स्वम् । अ॒स्मि॒न् । निऽवि॑ष्टम् । तत् । अ॒स्य॒ । घ्न॒न्ति॒ । अ॒भि॒ऽपश्य॑त: । ए॒व । तस्मा॑त् । दे॒व: । रो॒च॒ते॒ । ए॒ष: । ए॒तत् ॥८.२४॥
Mantra 25
बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते। ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या ॥
बाला॑त् । एक॑म् । अ॒णी॒य॒:ऽकम् । उ॒त । एक॑म् । नऽइ॑व । दृ॒श्य॒ते॒ । तत॑: । परि॑ऽस्वजीयसी । दे॒वता॑ । सा । मम॑ । प्रि॒या ॥८.२५॥
Mantra 26
इ॒यं क॑ल्या॒ण्यजरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे। यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥
इ॒यम् । क॒ल्या॒णी । अ॒जरा॑ । मर्त्य॑स्य । अ॒मृता॑ । गृ॒हे । यस्मै॑ । कृ॒ता । शये॑ । स: । य: । च॒कार॑ । ज॒जार॑ । स: ॥८.२६॥
Mantra 27
त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कु॑मा॒र उ॒त वा॑ कुमा॒री। त्वं जी॒र्णो द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒तो भ॑वसि वि॒श्वतो॑मुखः ॥
त्वम् । स्त्री । त्वम् । पुमा॑न् । अ॒सि॒ । त्वम् । कु॒मा॒र: । उ॒त । वा॒ । कु॒मा॒री । त्वम् । जी॒र्ण: । द॒ण्डेन॑ । व॒ञ्च॒सि॒ । त्वम् । जा॒त: । भ॒व॒सि॒ । वि॒श्वत॑:ऽमुख: ॥८.२७॥
Mantra 28
उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः। एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥
उ॒त । ए॒षा॒म् । पि॒ता । उ॒त । वा॒ । पु॒त्र: । ए॒षा॒म् । उ॒त । ए॒षा॒म् । ज्ये॒ष्ठ: । उ॒त । वा॒ । क॒नि॒ष्ठ: । एक॑: । ह॒ । दे॒व: । मन॑सि । प्रऽवि॑ष्ट: । प्र॒थ॒म: । जा॒त: । स: । ऊं॒ इति॑ । गर्भे॑ । अ॒न्त: ॥८.२८॥
Mantra 29
पू॒र्णात्पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते। उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत्प॑रिषि॒च्यते॑ ॥
पू॒र्णात् । पू॒र्णम् । उत् । अ॒च॒ति॒ । पू॒र्णम् । पू॒र्णेन॑ । सि॒च्य॒ते॒ । उ॒तो इति॑ । तत् । अ॒द्य । वि॒द्या॒म॒ । यत॑: । तत् । प॒रि॒ऽसि॒च्यते॑ ॥८.२९॥
Mantra 30
ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव। म॒ही दे॒व्युषसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे ॥
ए॒षा । स॒नत्नी॑ । सन॑म् । ए॒व । जा॒ता । ए॒षा । पु॒रा॒णी । परि॑ । सर्व॑म् । ब॒भू॒व॒ । म॒ही । दे॒वी । उ॒षस॑: । वि॒ऽभा॒ती । सा । एके॑नऽएकेन । मि॒ष॒ता । वि । च॒ष्टे॒ ॥८.३०॥
Mantra 31
अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता। तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥
अवि॑: । वै । नाम॑ । दे॒वता॑ । ऋ॒तेन॑ । आ॒स्ते॒ । परि॑ऽवृता । तस्या॑: । रू॒पेण॑ । इ॒मे । वृ॒क्षा: । हरि॑ता: । हरि॑तऽस्रज: ॥८.३१॥
Mantra 32
अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति। दे॒वस्य॑ पश्य॒ काव्यं॒ न म॑मार॒ न जी॑र्यति ॥
अन्ति॑ । सन्त॑म् । न । ज॒हा॒ति॒ । अन्ति॑ । सन्त॑म् । न । प॒श्य॒ति॒ । दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । न । म॒मा॒र॒ । न । जी॒र्य॒ति॒ ॥८.३२॥
Mantra 33
अ॑पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्। वद॑न्ती॒र्यत्र॒ गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत् ॥
अ॒पू॒र्वेण॑ । इ॒षि॒ता: । वाच॑: । ता: । व॒द॒न्ति॒ । ता: । व॒द॒न्ति॒ । य॒था॒ऽय॒थम् । वद॑न्ती: । यत्र॑ । गच्छ॑न्ति । तत् । आ॒हु॒: । ब्रा॒ह्म॑णम् । म॒हत् ॥८.३३॥
Mantra 34
यत्र॑ दे॒वाश्च॑ मनु॒ष्याश्चा॒रा नाभा॑विव श्रि॒ताः। अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ॥
यत्र॑ । दे॒वा: । च॒ । म॒नु॒ष्या᳡: । च॒ । अ॒रा: । नाभौ॑ऽइव । श्रि॒ता: । अ॒पाम् । त्वा॒ । पुष्प॑म् । पृ॒च्छा॒मि॒ । यत्र॑ । तत् । मा॒यया॑ । हि॒तम् ॥८.३४॥
Mantra 35
येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑। य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥
येभि॑: । वात॑: । इ॒षि॒त: । प्र॒ऽवार्ति॑ । ये । दद॑न्ते । पञ्च॑ । दिश॑: । स॒ध्रीची॑: । ये । आऽहु॑तिम् । अ॒ति॒ऽअम॑न्यन्त । दे॒वा: । अ॒पाम् । ने॒तार॑: । क॒त॒मे । ते । आ॒स॒न् ॥८.३५॥
Mantra 36
इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ऽन्तरि॑क्षं॒ पर्येको॑ बभूव। दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑ ॥
इ॒माम् । ए॒षा॒म् । पृ॒थि॒वीम् । वस्ते॑ । एक॑: । अ॒न्तरि॑क्षम् । परि॑ । एक॑: । ब॒भू॒व॒ । दिव॑म् । ए॒षा॒म् । द॒द॒ते॒ । य: । वि॒ऽध॒र्ता । विश्वा॑: । आशा॑: । प्रति॑ । र॒क्ष॒न्ति॒ । एके॑ ॥८.३६॥
Mantra 37
यो वि॒द्यात्सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद्स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
य: । वि॒द्यात् । सूत्र॑म् । विऽत॑तम् । यस्मि॑न् । आऽउ॑ता: । प्र॒ऽजा: । इ॒मा: । सूत्र॑म् । सूत्र॑स्य । य: । वि॒द्यात् । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.३७॥
Mantra 38
वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ॥
वेद॑ । अ॒हम् । सूत्र॑म् । विऽत॑तम् । यस्मि॑न् । आऽउ॑ता: । प्र॒ऽजा: । इ॒मा: । सूत्र॑म् । सूत्र॑स्य । अ॒हम् । वे॒द॒ । अथो॒ इति॑ । यत् । ब्राह्म॑णम् । म॒हत् ॥८.३८॥
Mantra 39
यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत्प्र॒दह॑न्विश्वदा॒व्यः। यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त्क्वेवासीन्मात॒रिश्वा॑ त॒दानी॑म् ॥
यत् । अ॒न्त॒रा । द्या॑वाथि॒वी इति॑ । अ॒ग्नि: । ऐत् । प्र॒ऽदह॑न् । वि॒श्व॒ऽदा॒व्य᳡:। यत्र॑ । अति॑ष्ठन् । एक॑ऽपत्नी: । प॒रस्ता॑त् । क्व᳡ऽइव । आ॒सी॒त् । मा॒त॒रिश्वा॑ । त॒दानी॑म् ॥८.३९॥
Mantra 40
अ॒प्स्वासीन्मात॒रिश्वा॒ प्रवि॑ष्टः॒ प्रवि॑ष्टा दे॒वाः स॑लि॒लान्या॑सन्। बृ॒हन्ह॑ तस्थौ॒ रज॑सो वि॒मानः॒ पव॑मानो ह॒रित॒ आ वि॑वेश ॥
अ॒प्ऽसु । आ॒सी॒त् । मा॒त॒रिश्वा॑ । प्रऽवि॑ष्ट: । प्रऽवि॑ष्टा: । दे॒वा: । स॒लि॒लानि॑ । आ॒स॒न् । बृ॒हन् । ह॒ । त॒स्थौ॒ । रज॑स: । वि॒ऽमान॑: । पव॑मान: । ह॒रित॑: । आ । वि॒वे॒श॒ ॥८.४०॥
Mantra 41
उत्त॑रेणेव गाय॒त्रीम॒मृतेऽधि॒ वि च॑क्रमे। साम्ना॒ ये साम॑ संवि॒दुर॒जस्तद्द॑दृशे॒ क्व ॥
उत्त॑रेणऽइव । गा॒य॒त्रीम् । अ॒मृते॑ । अधि॑ । वि । च॒क्र॒मे॒ । साम्ना॑ । ये । साम॑ । स॒म्ऽवि॒दु: । अ॒ज: । तत् । द॒दृ॒शे॒ । क्व᳡ ॥८.४१॥
Mantra 42
नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा। इन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥
नि॒ऽवेश॑न: । स॒म्ऽगम॑न: । वसू॑नाम् । दे॒व:ऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्र॑: । न । त॒स्थौ॒ । स॒म्ऽअ॒रे । धना॑नाम् ॥८.४२॥
Mantra 43
पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्। तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥
पु॒ण्डरी॑कम् । नव॑ऽद्वारम् । त्रि॒ऽभि: । गु॒णेभि॑: । आऽवृ॑तम् । तस्मि॑न् । यत् । य॒क्षम् । आ॒त्म॒न्ऽवत् । तत् । वै । ब्र॒ह्म॒ऽविद॑: । वि॒दु: ॥८.४३॥
Mantra 44
अ॑का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑। तमे॒व वि॒द्वान्न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम् ॥
अ॒का॒म: । धीर॑: । अ॒मृत॑: । स्व॒य॒म्ऽभू: । रसे॑न । तृ॒प्त: । न । कुत॑:। च॒न । ऊन॑: । तम् । ए॒व । वि॒द्वान् । न । बि॒भा॒य॒ । मृ॒त्यो: । आ॒त्मान॑म् । धीर॑म् । अ॒जर॑म् । युवा॑नम् ॥८.४४॥