Mantra 1
कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्व व्र॒तं क्व श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥
कस्मि॑न् । अङ्गे॑ । तप॑: । अ॒स्य॒ । अधि॑ । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । ऋ॒तम् । अ॒स्य॒ । अधि॑ । आऽहि॑तम् । क्व᳡ । व्र॒तम् । क्व᳡ । श्र॒ध्दा । अ॒स्य । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । स॒त्यम् । अ॒स्य॒ । प्रति॑ऽस्थितम् ॥७.१॥
Mantra 2
कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥
कस्मा॑त् । अङ्गा॑त् । दी॒प्य॒ते॒ । अ॒ग्नि: । अ॒स्य॒ । कस्मा॑त् । अङ्गा॑त् । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । कस्मा॑त् । अङ्गा॑त् । वि । मि॒मी॒ते॒ । अधि॑ । च॒न्द्रमा॑: । म॒ह: । स्क॒म्भस्य॑ । मिमा॑न: । अङ्ग॑म् ॥७.२॥
Mantra 3
कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥
कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । भूमि॑: । अ॒स्य॒ । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । आऽहि॑ता । द्यौ: । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । उत्ऽत॑रम् । दि॒व: ॥७.३॥
Mantra 4
क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्पवते मात॒रिश्वा॑। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
क्व᳡ । प्र॒ऽईप्स॑न् । दी॒प्य॒ते॒ । ऊ॒र्ध्व: । अ॒ग्नि: । क्व᳡ । प्र॒ऽईप्स॑न् । प॒व॒ते॒ । मा॒त॒रि॒श्वा॑ । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आ॒ऽवृत॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.४॥
Mantra 5
क्वार्धमा॒साः क्व यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः। यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
क्व᳡ । अ॒र्ध॒ऽमा॒सा: । क्व᳡ । य॒न्ति॒ । मासा॑: । स॒म्ऽव॒त्स॒रेण॑ । स॒ह । स॒म्ऽवि॒दा॒ना: । यत्र॑ । यन्ति॑ । ऋ॒तव॑: । यत्र॑ । आ॒र्त॒वा: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.५॥
Mantra 6
क्व प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
क्व᳡ । प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्सन्ती । यु॒व॒ती इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । अ॒हो॒रा॒त्रे इति॑ । द्र॒व॒त॒: । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आप॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.६॥
Mantra 7
यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्मि॑न् । स्त॒ब्ध्वा । प्र॒जाऽप॑ति: । लो॒कान् । सर्वा॑न् । अधा॑रयत् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.७॥
Mantra 8
यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥
यत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥
Mantra 9
किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य। एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥
किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । भू॒तम् । किय॑त् । भ॒वि॒ष्यत् । अ॒नु॒ऽआश॑ये । अ॒स्य॒ । एक॑म् । यत् । अङ्ग॑म् । अकृ॑णोत् । स॒ह॒स्र॒ऽधा । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ ॥७.९॥
Mantra 10
यत्र॑ लो॒कांश्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः। अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यत्र॑ । लो॒कान् । च॒ । कोशा॑न् । च॒ । आप॑: । ब्रह्म॑ । जना॑: । वि॒दु: । अस॑त् । च॒ । यत्र॑ । सत् । च॒ । अ॒न्त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१०॥
Mantra 11
यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्। ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यत्र॑ । तप॑: । प॒रा॒ऽक्रम्य॑ । व्र॒तम् । धा॒रय॑ति । उत्ऽत॑रम् । ऋ॒तम् । च॒ । यत्र॑ । श्र॒ध्दा । च॒ । आप॑: । ब्रह्म॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.११॥
Mantra 12
यस्मि॒न्भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता। यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॑स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्मि॑न् । भूमि॑: । अ॒न्तरि॑क्षम् । द्यौ: । यस्मि॑न् । अधि॑ । आऽहि॑ता । यत्र॑ । अ॒ग्नि: । च॒न्द्रमा॑: । सूर्य॑: । वात॑: । तिष्ठ॑न्ति । आर्पि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१२॥
Mantra 13
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । सर्वे॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१३॥
Mantra 14
यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही। ए॑क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यत्र॑ । ऋष॑य: । प्र॒थ॒म॒ऽजा: । ऋच॑: । साम॑ । यजु॑: । म॒ही । ए॒क॒ऽऋ॒षि: । यस्मि॑न् । आर्पि॑त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१४॥
Mantra 15
यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते। स॑मु॒द्रो यस्य॑ ना॒ड्यः पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्यु: । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्र: । यस्य॑ । ना॒ड्य᳡: । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१५॥
Mantra 16
यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्यस्तिष्ठ॑न्ति प्रथ॒माः। य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्य॑ । चत॑स्र: । प्र॒ऽदिश॑: । ना॒ड्य᳡: । तिष्ठ॑न्ति । प्र॒थ॒मा: । य॒ज्ञ: । यत्र॑ । परा॑ऽक्रान्त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१६॥
Mantra 17
ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥
ये । पुरु॑षे । ब्रह्म॑ । वि॒दु: । ते । वि॒दु॒: । प॒र॒मे॒ऽस्थिन॑म् । य: । वेद॑ । प॒र॒मे॒ऽस्थिन॑म् । य: । च॒ । वेद॑ । प्र॒जाऽप॑तिम् । ज्ये॒ष्ठम् । ये । ब्राह्म॑णम् । वि॒दु: । ते । स्क॒म्भम् । अ॒नु॒ऽसंवि॑दु: ॥७.१७॥
Mantra 18
यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्य॑ । शिर॑: । वै॒श्वा॒न॒र: । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । अङ्गा॑नि । यस्य॑ । या॒तव॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१८॥
Mantra 19
यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त। वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्य॑ । ब्रह्म॑ । मुख॑म् । आ॒हु: । जि॒ह्वाम् । म॒धु॒ऽक॒शाम् । उ॒त । वि॒ऽराज॑म् । ऊध॑: । यस्य॑ । आ॒हु: । स्क॒म्भ॒म् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१९॥
Mantra 20
यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्। सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्मा॑त् । ऋच॑: । अ॒प॒ऽअत॑क्षन् । यजु॑: । यस्मा॑त् । अ॒प॒ऽअक॑षन् । सामा॑नि । यस्य॑ । लोमा॑नि । अ॒थ॒र्व॒ऽअ॒ङ्गि॒रस॑: । मुख॑म् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२०॥
Mantra 21
असच्छा॒खां प्र॒तिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः। उ॒तो सन्म॑न्य॒न्तेऽव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ॥
अ॒स॒त्ऽशा॒खाम् । प्र॒ऽतिष्ठ॑न्तीम् । प॒र॒मम्ऽइ॑व । जना॑: । वि॒दु: । उ॒तो इति॑ । सत् । म॒न्य॒न्ते॒ । अव॑रे । ये । ते॒ । शाखा॑म् । उ॒प॒ऽआस॑ते ॥७.२१॥
Mantra 22
यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑। भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यत्र॑ । आ॒दि॒त्या: । च॒ । रू॒द्रा: । च॒ । वस॑व: । च॒ । स॒म्ऽआहि॑ता: । भू॒तम् । च॒ । यत्र॑ । भव्य॑म् । च॒ । सर्वे॑ । लो॒का: । प्रति॑ऽस्थिता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२२॥
Mantra 23
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा नि॒धिं रक्ष॑न्ति सर्व॒दा। नि॒धिं तम॒द्य को वे॑द॒ यं दे॑वा अभि॒रक्ष॑थ ॥
यस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । नि॒ऽधिम् । रक्ष॑न्ति । स॒र्व॒दा । नि॒ऽधिम् । तम् । अ॒द्य । क: । वे॒द॒ । यम् । दे॒वा॒: । अ॒भि॒ऽरक्ष॑थ ॥७.२३॥
Mantra 24
यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ॥
यत्र॑ । दे॒वा: । ब्र॒ह्म॒ऽविद॑: । ब्रह्म॑ । ज्ये॒ष्ठम् । उ॒प॒ऽआस॑ते । य: । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । स: । ब्र॒ह्मा । वेदि॑ता । स्या॒त् ॥७.२४॥
Mantra 25
बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे। एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥
बृ॒हन्त॑: । नाम॑ । ते । दे॒वा: । ये । अस॑त: । परि॑ । ज॒ज्ञि॒रे । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । अस॑त् । आ॒हु॒: । प॒र: । जना॑: ॥७.२५॥
Mantra 26
यत्र॑ स्क॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत्। एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ॥
यत्र॑ । स्क॒म्भ: । प्र॒ऽज॒नय॑न् । पु॒रा॒णम् । वि॒ऽअव॑र्तयत् । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । पु॒रा॒णम् । अ॒नु॒ऽसंवि॑दु: ॥७.२६॥
Mantra 27
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥
यस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । गात्रा॑ । वि॒ऽभे॒जि॒रे । तान् । वै । त्रय॑:ऽत्रिंशत् । दे॒वान् । एके॑ । ब्र॒ह्म॒ऽविद॑: । वि॒दु॒: ॥७.२७॥
Mantra 28
हि॑रण्यग॒र्भं प॑र॒मम॑नत्यु॒द्यं जना॑ विदुः। स्क॒म्भस्तदग्रे॒ प्रासि॑ञ्च॒द्धिर॑ण्यं लो॒के अ॑न्त॒रा ॥
हि॒र॒ण्य॒ऽग॒र्भम् । प॒र॒मम् । अ॒न॒ति॒ऽउ॒द्यम् । जना॑: । वि॒दु॒: । स्क॒म्भ: । तत् । अग्रे॑ । प्र । अ॒सि॒ञ्च॒त् । हिर॑ण्यम् । लो॒के । अ॒न्त॒रा ॥७.२८॥
Mantra 29
स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भेऽध्यृ॒तमाहि॑तम्। स्कम्भं॒ त्वा वे॑द प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम् ॥
स्क॒म्भे । लो॒का: । स्क॒म्भे । तप॑: । स्क॒म्भे । अधि॑ । ऋ॒तम् । आऽहि॑तम् । स्कम्भ॑ । त्वा॒ । वे॒द॒ । प्र॒ति॒ऽअक्ष॑म् । इन्द्रे॑ । सर्व॑म् । स॒म्ऽआहि॑तम् ॥७.२९॥
Mantra 30
इन्द्रे॑ लो॒का इन्द्रे॒ तप॒ इन्द्रे॑ऽध्यृ॒तमाहि॑तम्। इन्द्रं॒ त्वा वे॑द प्र॒त्यक्षं॑ स्क॒म्भे सर्वं॒ प्रति॑ष्ठितम् ॥
इन्द्रे॑ । लो॒का: । इन्द्रे॑ । तप॑: । इन्द्रे॑ । अधि॑ । ऋ॒तम् । आऽहि॑तम् । इन्द्र॑म् । त्वा॒ । वे॒द॒। प्र॒ति॒ऽअक्ष॑म् । स्क॒म्भे । सर्व॑म् । प्रति॑ऽस्थितम् ॥७.३०॥
Mantra 31
नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑। यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥
नाम॑ । नाम्ना॑ । जो॒ह॒वी॒ति॒ । पु॒रा । सूर्या॑त् । पु॒रा । उ॒षस॑: । यत् । अ॒ज: । प्र॒थ॒मम् । स॒म्ऽब॒भूव॑ । स: । ह॒ । तत् । स्व॒ऽराज्य॑म् । इ॒या॒य॒ । यस्मा॑त् । न । अ॒न्यत् । पर॑म् । अस्ति॑ । भू॒तम् ॥७.३१॥
Mantra 32
यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्। दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
यस्य॑ । भूमि॑: । प्र॒ऽमा । अ॒न्तरि॑क्षम् । उ॒त । उ॒दर॑म् । दिव॑म् । य: । च॒क्रे । मू॒र्धान॑म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३२॥
Mantra 33
यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः। अ॒ग्निं यश्च॒क्र आ॒स्यं तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
यस्य॑ । सूर्य॑: । चक्षु॑: । च॒न्द्रमा॑: । च॒ । पुन॑:ऽनव: । अ॒ग्निम् । य: । च॒क्रे । आ॒स्य᳡म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३३॥
Mantra 34
यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
यस्य॑ । वात॑: । प्रा॒णा॒पा॒नौ । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । दिश॑: । य: । च॒क्रे । प्र॒ऽज्ञानी॑: । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३४॥
Mantra 35
स्क॒म्भो दा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्क॒म्भो दा॑धारो॒र्वन्तरि॑क्षम्। स्क॒म्भो दा॑धार प्र॒दिशः॒ षडु॒र्वीः स्क॒म्भ इ॒दं विश्वं॒ भुव॑न॒मा वि॑वेश ॥
स्क॒म्भ: । दा॒धा॒र॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । स्क॒म्भ: । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् । स्क॒म्भ: । दा॒धा॒र॒ । प्र॒ऽदिश॑: । षट् । उ॒र्वी: । स्क॒म्भे । इ॒दम् । विश्व॑म् । भुव॑नम् । आ । वि॒वे॒श॒ ॥७.३५॥
Mantra 36
यः श्रमा॒त्तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे। सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
य: । श्रमा॑त् । तप॑स: । जा॒त: । लो॒कान् । सर्वा॑न् । स॒म्ऽआ॒न॒शे । सोम॑म् । य: । च॒क्रे । केव॑लम् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३६॥
Mantra 37
क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑। किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥
क॒थम् । वात॑: । न । इ॒ल॒य॒ति॒ । क॒थम् । न । र॒म॒ते॒ । मन॑: । किम् । आप॑: । स॒त्यम् । प्र॒ऽईप्स॑न्ती: । न । इ॒ल॒य॒न्ति॒ । क॒दा । च॒न ॥७.३७॥
Mantra 38
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे। तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥
म॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तप॑सि । क्रा॒न्तम् । स॒लि॒लस्य॑ । पृ॒ष्ठे । तस्मि॑न् । श्र॒य॒न्ते॒ । ये । ऊं॒ इति॑ । के । च॒ । दे॒वा: । वृ॒क्षस्य॑ । स्कन्ध॑: । प॒रित॑:ऽइव । शाखा॑: ॥७.३८॥
Mantra 39
यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा। यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
यस्मै॑ । हस्ता॑भ्याम् । पादा॑भ्याम् । वा॒चा । श्रोत्रे॑ण । चक्षु॑षा । यस्मै॑ । दे॒वा: । सदा॑ । ब॒लिम् । प्र॒ऽयच्छ॑न्ति । विऽमि॑ते । अमि॑तम् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.३९॥
Mantra 40
अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑त्तः॒ स पा॒प्मना॑। सर्वा॑णि॒ तस्मि॒ञ्ज्योतीं॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥
अप॑ । तस्य॑ । ह॒तम् । तम॑: । वि॒ऽआवृ॑त: । स: । पा॒प्मना॑ । सर्वा॑णि । तस्मि॑न् । ज्योति॑षि । यानि॑ । त्रीणि॑ । प्र॒जाऽप॑तौ ॥७.४०॥
Mantra 41
यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑। स वै गुह्यः॑ प्र॒जाप॑तिः ॥
य: । वे॒त॒सम् । हि॒र॒ण्यय॑म् । तिष्ठ॑न्तम् । स॒लि॒ले । वेद॑ । स: । वै । गुह्य॑: । प्र॒जाऽप॑ति: ॥७.४१॥
Mantra 42
त॒न्त्रमेके॑ युव॒ती विरू॑पे अभ्या॒क्रामं॑ वयतः॒ षण्म॑यूखम्। प्रान्या तन्तूं॑स्ति॒रते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मातो॒ अन्त॑म् ॥
त॒न्त्रम् । एके॒ इति॑ । यु॒व॒ती इति॑ । विरू॑पे इति॒ विऽरू॑पे । अ॒भि॒ऽआ॒क्राम॑म् । व॒य॒त॒: । षट्ऽम॑यूखम् । प्र । अ॒न्या । तन्तू॑न् । ति॒रते॑ । ध॒त्ते । अ॒न्या । न । अप॑ । वृ॒ञ्जा॒ते॒ इति॑ । न । ग॒मा॒त॒: । अन्त॑म् ॥७.४२॥
Mantra 43
तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि यत॒रा प॒रस्ता॑त्। पुमा॑नेनद्वय॒त्युद्गृ॑णत्ति॒ पुमा॑नेन॒द्वि ज॑भा॒राधि॒ नाके॑ ॥
तयो॑: । अ॒हम् । प॒रि॒नृत्य॑न्त्यो:ऽइव । न । वि । जा॒ना॒मि॒ । य॒त॒रा । प॒रस्ता॑त् । पुमा॑न् । ए॒न॒त् । व॒य॒ति॒ । उत् । गृ॒ण॒त्ति॒ । पुमा॑न् । ए॒न॒त् । वि । ज॒भा॒र॒ । अधि॑ । नाके॑ ॥७.४३॥
Mantra 44
इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ॥
इ॒मे । म॒यूखा॑: । उप॑ । त॒स्त॒भु॒: । दिव॑म् । सामा॑नि । च॒क्रु॒: । तस॑राणि । वात॑वे ॥ ७.४४॥