Mantra 1
अराती॒योर्भ्रातृ॑व्यस्य दु॒र्हार्दो॑ द्विष॒तः शिरः॑। अपि॑ वृश्चा॒म्योज॑सा ॥
अ॒रा॒ति॒ऽयो: । भ्रातृ॑व्यस्य । दु॒:ऽहार्द॑: । द्वि॒ष॒त: । शिर॑: । अपि॑ । वृ॒श्चा॒मि॒ । ओज॑सा ॥६.१॥
Mantra 2
वर्म॒ मह्य॑म॒यं म॒णिः फाला॑ज्जा॒तः क॑रिष्यति। पू॒र्णो म॒न्थेन॒ माग॑म॒द्रसे॑न स॒ह वर्च॑सा ॥
वर्म॑ । मह्य॑म् । अ॒यम् । म॒णि: । फाला॑त् । जा॒त: । क॒रि॒ष्य॒ति॒ । पू॒र्ण: । म॒न्थेन॑ । मा॒ । आ । अ॒ग॒म॒त् । रसे॑न । स॒ह । वर्च॑सा ॥६.२॥
Mantra 3
यत्त्वा॑ शि॒क्वः प॒राव॑धी॒त्तक्षा॒ हस्ते॑न॒ वास्या॑। आप॑स्त्वा॒ तस्मा॑ज्जीव॒लाः पु॒नन्तु॒ शुच॑यः॒ शुचि॑म् ॥
यत् । त्वा॒ । शि॒क्व: । प॒रा॒ऽअव॑धीत् । तक्षा॑ । हस्ते॑न । वास्या॑ । आप॑: । त्वा॒ । तस्मा॑त् । जी॒व॒ला: । पु॒नन्तु॑ । शुच॑य: । शुचि॑म् ॥६.३॥
Mantra 4
हिर॑ण्यस्रग॒यं म॒णिः श्र॒द्धां य॒ज्ञं महो॒ दध॑त्। गृ॒हे व॑सतु॒ नोऽति॑थिः ॥
हिर॑ण्यऽस्रक् । अ॒यम् । म॒णि: । श्र॒ध्दाम् । य॒ज्ञम् । मह॑: । दध॑त् । गृ॒हे । व॒स॒तु॒ । न॒: । अति॑थि: ॥६.४॥
Mantra 5
तस्मै॑ घृ॒तं सुरां॒ मध्वन्न॑मन्नं क्षदामहे। स नः॑ पि॒तेव॑ पु॒त्रेभ्यः॒ श्रेयः॑ श्रेयश्चिकित्सतु॒ भूयो॑भूयः॒ श्वःश्वो॑ दे॒वेभ्यो॑ म॒णिरेत्य॑ ॥
तस्मै॑ । घृ॒तम् । सुरा॑म् । मधु॑ । अन्न॑म्ऽअन्नम् । क्ष॒दा॒म॒हे॒ । स: । न॒: । पि॒ताऽइ॑व । पु॒त्रेभ्य॑: । श्रेय॑:ऽश्रय: । चि॒कि॒त्स॒तु॒ । भूय॑:ऽभूय: । श्व:ऽश्व॑: । दे॒वेभ्य॑: । म॒णि: । आ॒ऽइत्य॑ ॥६.५॥
Mantra 6
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तम॒ग्निः प्रत्य॑मुञ्चत॒ सो अ॑स्मै दुह॒ आज्यं॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । अ॒ग्नि: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । स: । अ॒स्मै॒ । दु॒हे॒ । आज्य॑म् । भूय॑:ऽभूय: । श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.६॥
Mantra 7
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तमिन्द्रः॒ प्रत्य॑मुञ्च॒तौज॑से वी॒र्याय॒ कम्। सो अ॑स्मै॒ बल॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । इन्द्र॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । ओज॑से । वी॒र्या᳡य । कम् । स: । अ॒स्मै॒ । बल॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.७॥
Mantra 8
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सोमः॒ प्रत्य॑मुञ्चत म॒हे श्रोत्रा॑य॒ चक्ष॑से। सो अ॑स्मै॒ वर्च॒ इद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सोम॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । म॒हे । श्रोत्रा॑य । चक्ष॑से । स: । अ॒स्मै॒ । वर्च॑: । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.८॥
Mantra 9
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सूर्यः॒ प्रत्य॑मुञ्चत॒ तेने॒मा अ॑जय॒द्दिशः॑। सो अ॑स्मै॒ भूति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सूर्य॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । तेन॑ । इ॒मा: । अ॒ज॒य॒त् । दिश॑: । स: । अ॒स्मै॒ । भूति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.९॥
Mantra 10
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। त बिभ्र॑च्च॒न्द्रमा॑ म॒णिमसु॑राणां॒ पुरो॑ऽजयद्दान॒वानां॑ हिर॒ण्ययीः॑। सो अ॑स्मै॒ श्रिय॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । बिभ्र॑त् । च॒न्द्रमा॑: । म॒णिम् । असु॑राणाम् । पुर॑: । अ॒ज॒य॒त् । दा॒न॒वाना॑म् । हि॒र॒ण्ययी॑: । स: । अ॒स्मै॒ । श्रिय॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१०॥
Mantra 11
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। सो अ॑स्मै वा॒जिन॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । स: । अ॒स्मै॒ । वा॒जिन॑म् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.११॥
Mantra 12
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तेने॒मां म॒णिना॑ कृ॒षिम॒श्विना॑व॒भि र॑क्षतः। स भि॒षग्भ्यां॒ महो॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तेन॑ । इ॒माम् । म॒णिना॑ । कृ॒षिम् । अ॒श्विनौ॑ । अ॒भि । र॒क्ष॒त॒: । स: । भि॒षक्ऽभ्या॑म् । मह॑: । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१२॥
Mantra 13
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं बिभ्र॑त्सवि॒ता म॒णिं तेने॒दम॑जय॒त्स्वः। सो अ॑स्मै सू॒नृतां॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । बिभ्र॑त् । स॒वि॒ता । म॒णिम् । तेन॑ । इ॒दम् । अ॒ज॒य॒त् । स्व᳡: । स: । अ॒स्मै॒ । सू॒नृता॑य । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१३॥
Mantra 14
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः। स आ॑भ्यो॒ऽमृत॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । आप॑: । बिभ्र॑ती: । म॒णिम् । सदा॑ । धा॒व॒न्ति॒ । अक्षि॑ता: । स: । आ॒भ्य॒: । अ॒मृत॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१४॥
Mantra 15
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्। सो अ॑स्मै स॒त्यमिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । राजा॑ । वरु॑ण: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒त॒ । श॒म्ऽभुव॑म् । स: । अ॒स्मै॒ । स॒त्यम् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१५॥
Mantra 16
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । देवा: । बिभ्र॑त: । म॒णिम् । सर्वा॑न् । लो॒कान् । यु॒धा । अ॒ज॒य॒न् । स: । ए॒भ्य॒: । जिति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१६॥
Mantra 17
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । इ॒मम् । दे॒वता॑: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒न्त॒ । श॒म्ऽभुव॑म् । स: । आ॒भ्य॒: । विश्व॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय: । श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१७॥
Mantra 18
ऋ॒तव॒स्तम॑बध्नतार्त॒वास्तम॑बध्नत। सं॑वत्स॒रस्तं ब॒द्ध्वा सर्वं॑ भू॒तं वि र॑क्षति ॥
ऋ॒तव॑: । तम् । अ॒ब॒ध्न॒त॒ । आ॒र्त॒वा: । तम् । अ॒ब॒ध्न॒त॒ । स॒म्ऽव॒त्स॒र: । तम् । ब॒ध्द्वा । सर्व॑म् । भू॒तम् । वि । र॒क्ष॒ति॒ ॥६.१८॥
Mantra 19
अ॑न्तर्दे॒शा अ॑बध्नत प्र॒दिश॒स्तम॑बध्नत। प्र॒जाप॑तिसृष्टो म॒णिर्द्वि॑ष॒तो मेऽध॑राँ अकः ॥
अ॒न्त॒:ऽदे॒शा: । अ॒ब॒ध्न॒त॒ । प्र॒ऽदिश॑: । तम् । अ॒ब॒ध्न॒त॒ । प्र॒जाप॑तिऽसृष्ट: । म॒णि: । द्वि॒ष॒त: । मे॒ । अध॑रान् । अ॒क॒: ॥६.१९॥
Mantra 20
अथ॑र्वाणो अबध्नताथर्व॒णा अ॑बध्नत। तैर्मे॒दिनो॒ अङ्गि॑रसो॒ दस्यू॑नां बिभिदुः॒ पुर॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
अथ॑र्वाण: । अ॒ब॒ध्न॒त॒ । आ॒थ॒र्व॒णा: । अ॒ब॒ध्न॒त॒ । तै: । मे॒दिन॑: । अङ्गि॑रस: । दस्यू॑नाम् । बि॒भि॒दु॒: । पुर॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.२०॥
Mantra 21
तं धा॒ता प्रत्य॑मुञ्चत॒ स भू॒तं व्यकल्पयत्। तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
तम् । धा॒ता । प्रति॑ । अ॒मु॒ञ्च॒त॒ । स: । भू॒तम् । वि । अ॒क॒ल्प॒य॒त् । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.२१॥
Mantra 22
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒द्रसे॑न स॒ह वर्च॑सा ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । रसे॑न । स॒ह । वर्च॑सा ॥६.२२॥
Mantra 23
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मत्स॒ह गोभि॑रजा॒विभि॒रन्ने॑न प्र॒जया॑ स॒ह ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । स॒ह । गोभि॑: । अ॒जा॒विऽभि॑: । अन्ने॑न । प्र॒ऽजया॑ । स॒ह ॥६.२३॥
Mantra 24
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मत्स॒ह व्री॑हिय॒वाभ्यां॒ मह॑सा॒ भूत्या॑ स॒ह ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । स॒ह । व्री॒हि॒ऽय॒वाभ्या॑म् । मह॑सा । भूत्या॑ । स॒ह ॥६.२४॥
Mantra 25
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒न्मधो॑र्घृ॒तस्य॒ धार॑या की॒लाले॑न म॒णिः स॒ह ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । मधो॑: । घृ॒तस्य॑ । धार॑या । की॒लाले॑न । म॒णि: । स॒ह ॥६.२५॥
Mantra 26
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मदू॒र्जया॒ पय॑सा स॒ह द्रवि॑णेन श्रि॒या स॒ह ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । ऊ॒र्जया॑ । पय॑सा । स॒ह । द्रवि॑णेन । श्रि॒या । स॒ह ॥६.२६॥
Mantra 27
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒त्तेज॑सा॒ त्विष्या॑ स॒ह यश॑सा की॒र्त्या स॒ह ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । तेज॑सा । त्विष्या॑ । स॒ह । यश॑सा । की॒र्त्या᳡ । स॒ह ॥६.२७॥
Mantra 28
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒त्सर्वा॑भि॒र्भूति॑भिः स॒ह ॥
यम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । सर्वा॑भि: । भूति॑:ऽभि: । स॒ह ॥६.२८॥
Mantra 29
तमि॒मं दे॒वता॑ म॒णिं मह्यं॑ ददतु॒ पुष्ट॑ये। अ॑भि॒भुं क्ष॑त्र॒वर्ध॑नं सपत्न॒दम्भ॑नं म॒णिम् ॥
तम् । इ॒मम् । दे॒वता॑: । म॒णिम् । मह्य॑म् । द॒द॒तु॒ । पुष्ट॑ये । अ॒भि॒ऽभुम् । क्ष॒त्र॒ऽवर्ध॑नम् । स॒प॒त्न॒ऽदम्भ॑नम् । म॒णिम् ॥६.२९॥
Mantra 30
ब्रह्म॑णा॒ तेज॑सा स॒ह प्रति॑ मुञ्चामि मे शि॒वम्। अ॑सप॒त्नः स॑पत्न॒हा स॒पत्ना॒न्मेऽध॑राँ अकः ॥
ब्रह्म॑णा । तेज॑सा । स॒ह । प्रति॑ । मु॒ञ्चा॒मि॒ । मे॒ । शि॒वम् । अ॒स॒प॒त्न: । स॒प॒त्न॒ऽहा । स॒ऽपत्ना॑न् । मे॒ । अध॑रान् । अ॒क॒ ॥६.३०॥
Mantra 31
उत्त॑रं द्विष॒तो माम॒यं म॒णिः कृ॑णोतु देव॒जाः। यस्य॑ लो॒का इ॒मे त्रयः॒ पयो॑ दु॒ग्धमु॒पास॑ते। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥
उत्ऽत॑रम् । द्वि॒ष॒त: । माम् । अ॒यम् । म॒णि: । कृ॒णो॒तु॒ । दे॒व॒ऽजा: । यस्य॑ । लो॒का: । इ॒मे । त्रय॑: । पय॑: । दु॒ग्धम् । उ॒प॒ऽआस॑ते । स: । मा॒ । अ॒यम् । अधि॑ । रो॒ह॒तु॒ । म॒णि: । श्रैष्ठ्या॑य । मू॒र्ध॒त: ॥६.३१॥
Mantra 32
यं दे॒वाः पि॒तरो॑ मनु॒ष्या उप॒जीव॑न्ति सर्व॒दा। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥
यम् । दे॒वा: । पि॒तर॑: । म॒नु॒ष्या᳡: । उ॒प॒ऽजीव॑न्ति । स॒र्व॒दा । स: । मा॒ । अ॒यम् । अधि॑ । रो॒ह॒तु॒ । म॒णि: । श्रैष्ठ्या॑य । मू॒र्ध॒त: ॥६.३२॥
Mantra 33
यथा॒ बीज॑मु॒र्वरा॑यां कृ॒ष्टे फाले॑न॒ रोह॑ति। ए॒वा मयि॑ प्र॒जा प॒शवोऽन्न॑मन्नं॒ वि रो॑हतु ॥
यथा॑ । बीज॑म् । उ॒र्वरा॑याम् । कृ॒ष्टे । फाले॑न । रोह॑ति । ए॒व । मयि॑ । प्र॒ऽजा । प॒शव॑: । अन्न॑म्ऽअन्नम् । वि । रो॒ह॒तु॒ ॥६.३३॥
Mantra 34
यस्मै॑ त्वा यज्ञवर्धन॒ मणे॑ प्र॒त्यमु॑चं शि॒वम्। तं त्वं श॑तदक्षिण॒ मणे॑ श्रैष्ठ्याय जिन्वतात् ॥
यस्मै॑ । त्वा॒ । य॒ज्ञ॒ऽव॒र्ध॒न॒ । मणे॑ । प्र॒ति॒ऽअमु॑ञ्चम् । शि॒वम् । तम् । त्वम् । श॒त॒ऽद॒क्षि॒ण॒ । मणे॑ । श्रैष्ठ्या॑य । जि॒न्व॒ता॒त् ॥६.३४॥
Mantra 35
ए॒तमि॒ध्मं स॒माहि॑तं जुष॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑। तस्मि॑न्विधेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ॥
ए॒तम् । इ॒ध्मम् । स॒म्ऽआहि॑तम् । जु॒षा॒ण: । अग्ने॑ । प्रति॑ । ह॒र्य॒ । होमै॑: । तस्मि॑न् । वि॒दे॒म॒ । सु॒ऽम॒तिम् । स्व॒स्ति । प्र॒ऽजाम् । चक्षु॑: । प॒शून् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । ब्रह्म॑णा ॥६.३५॥