Mantra 1
केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥
केन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥
Mantra 2
कस्मा॒न्नु गु॒ल्फावध॑रावकृण्वन्नष्ठी॒वन्ता॒वुत्त॑रौ॒ पूरु॑षस्य। जङ्घे॑ नि॒रृत्य॒ न्यदधुः॒ क्व स्वि॒ज्जानु॑नोः स॒न्धी क उ॒ तच्चि॑केत ॥
कस्मा॑त् । नु । गु॒ल्फौ । अध॑रौ । अ॒कृ॒ण्व॒न् । अ॒ष्ठी॒वन्तौ॑ । उत्ऽत॑रौ । पुरु॑षस्य । जङ्घे॒ इति॑ । नि॒:ऽऋत्य॑ । नि । अ॒द॒धु॒: । क्व᳡ । स्वि॒त् । जानु॑नो: । सं॒धी इति॑ स॒म्ऽधी । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ ॥२.२॥
Mantra 3
चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्। श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥
चतु॑ष्टयम् । यु॒ज्य॒ते॒ । संहि॑तऽअन्तम् । जानु॑ऽभ्याम् । ऊ॒र्ध्वम् । शि॒थि॒रम् । कब॑न्धम् । श्रोणी॒ इति॑ । यत् । ऊ॒रू इति॑ । क: । ऊं॒ इति॑ । तत् । ज॒जा॒न॒ । याभ्या॑म् । कृसि॑न्धम् । सुऽदृ॑ढम् । ब॒भूव॑ ॥२.३॥
Mantra 4
कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पूरु॑षस्य। कति॒ स्तनौ॒ व्यदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ॥
कति॑ । दे॒वा: । क॒त॒मे । ते । आ॒स॒न् । ये । उर॑: । ग्री॒वा: । चि॒क्यु: । पुरु॑षस्य । कति॑ । स्तनौ॑ । वि । अ॒द॒धु॒: । क: । क॒फो॒डौ । कति॑ । स्क॒न्धान् । कति॑ । पृ॒ष्टी: । अ॒चि॒न्व॒न् ॥२.४॥
Mantra 5
को अ॑स्य बा॒हू सम॑भरद्वी॒र्यं करवा॒दिति॑। अंसौ॒ को अ॑स्य॒ तद्दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ॥
क: । अ॒स्य॒ । बा॒हू इति॑ । सम् । अ॒भ॒र॒त् । वी॒र्य᳡म् । क॒र॒वा॒त् । इति॑ । अंसौ॑ । क: । अ॒स्य॒ । तत् । दे॒व: । कुसि॑न्धे । अधि॑ । आ । द॒धौ॒ ॥२.५॥
Mantra 6
कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्मनि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ॥
क: । स॒प्त । खानि॑ । वि । त॒त॒र्द॒ । शी॒र्षणि॑ । कर्णौ॑ । इ॒मौ । नासि॑के॒ इति॑ । चक्ष॑णी॒ इति॑ । मुख॑म् । येषा॑म् । पु॒रु॒ऽत्रा । वि॒ऽज॒यस्य॑ । म॒ह्यनि॑ । चतु॑:ऽपाद: । द्वि॒ऽपद॑: । यन्ति॑ । याम॑म् ॥२.६॥
Mantra 7
हन्वो॒र्हि जि॒ह्वामद॑धात्पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्। स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ॥
हन्वो॑: । हि । जि॒ह्वाम् । अद॑धात् । पु॒रू॒चीम् । अध॑ । म॒हीम् । अधि॑ । शि॒श्रा॒य॒ । वाच॑म् । स: । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्त: । अ॒प: । वसा॑न: । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ ॥२.७॥
Mantra 8
म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥
म॒स्तिष्क॑म् । अ॒स्य॒ । य॒त॒म: । ल॒लाट॑म् । क॒काटि॑काम् । प्र॒थ॒म: । य: । क॒पाल॑म् । चि॒त्वा । चित्य॑म् । हन्वो॑: । पुरु॑षस्य । दिव॑म् । रु॒रो॒ह॒ । क॒त॒म: । स: । दे॒व: ॥२.८॥
Mantra 9
प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्र्यः। आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ॥
प्रि॒य॒ऽअ॒प्रि॒याणि॑ । ब॒हु॒ला । स्वप्न॑म् । सं॒बा॒ध॒ऽत॒न्द्र्य᳡: । आ॒ऽन॒न्दान् । उ॒ग्र: । नन्दा॑न् । च॒ । कस्मा॑त् । व॒ह॒ति॒ । पुरु॑ष: ॥२.९॥
Mantra 10
आर्ति॒रव॑र्ति॒र्निरृ॑तिः॒ कुतो॒ नु पुरु॒षेऽम॑तिः। राद्धिः॒ समृ॑द्धि॒रव्यृ॑द्धिर्म॒तिरुदि॑तयः॒ कुतः॑ ॥
आर्ति॑: । अव॑र्ति: । नि:ऽऋ॑ति: । कुत॑: । नु । पुरु॑षे । अम॑ति: । राध्दि॑: । सम्ऽऋ॑ध्दि: । अवि॑ऽऋध्दि: । म॒ति: । उत्ऽइ॑तय: । कुत॑: ॥२.१०॥
Mantra 11
को अ॑स्मि॒न्नापो॒ व्यदधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः। ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥
क: । अ॒स्मि॒न् । आप॑: । वि । अ॒द॒धा॒त् । वि॒षु॒ऽवृत॑: । पु॒रु॒:ऽवृत॑: । सि॒न्धु॒ऽसृत्या॑य । जा॒ता: । ती॒व्रा: । अ॒रु॒णा: । लोहि॑नी: । ता॒म्र॒ऽधू॒म्ना: । ऊ॒र्ध्वा: । अवा॑ची: । पुरु॑षे । ति॒रश्ची॑: ॥२.११॥
Mantra 12
को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च। गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥
क: । अ॒स्मि॒न् । रू॒पम् । अ॒द॒धा॒त् । क: । म॒ह्यान॑म् । च॒ । नाम॑ । च॒ । गा॒तुम् । क: । अ॒स्मि॒न् । क: । के॒तुम् । क: । च॒रित्रा॑णि । पुरु॑षे ॥२.१२॥
Mantra 13
को अ॑स्मिन्प्रा॒णम॑वय॒त्को अ॑पा॒नं व्या॒नमु॑। स॑मा॒नम॑स्मि॒न्को दे॒वोऽधि॑ शिश्राय॒ पूरु॑षे ॥
क: । अ॒स्मि॒न् । प्रा॒णम् । अ॒व॒य॒त् । क: । अ॒पा॒नम् । वि॒ऽआ॒नम् । ऊं॒ इति॑ । स॒म्ऽआ॒नम् । अ॒स्मि॒न् । क: । दे॒व: । अधि॑ । शि॒श्रा॒य॒ । पुरु॑षे ॥२.१३॥
Mantra 14
को अ॑स्मिन्य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पूरु॑षे। को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्युः कुतो॒ऽमृत॑म् ॥
क: । अ॒स्मि॒न् । य॒ज्ञम् । अ॒द॒धा॒त् । एक॑: । दे॒व: । अधि॑ । पुरु॑षे । क: । अ॒स्मि॒न् । स॒त्यम् । क: । अनृ॑तम् । कुत॑: । मृ॒त्यु: । कुत॑: । अ॒मृत॑म् ॥२.१४॥
Mantra 15
को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त्को अ॑स्याकल्पयज्ज॒वम् ॥
क: । अ॒स्मै॒ । वास॑: । परि॑ । अ॒द॒धा॒त् । क: । अ॒स्य॒ । आयु॑: । अ॒क॒ल्प॒य॒त् । बल॑म् । क: । अ॒स्मै॒ । प्र । अ॒य॒च्छ॒त् । क: । अ॒स्य॒ । अ॒क॒ल्प॒य॒त् । ज॒वम् ॥२.१५॥
Mantra 16
केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे। उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥
केन॑ । आप॑: । अनु॑ । अ॒त॒नु॒त॒ । केन॑ । अह॑: । अ॒क॒रो॒त् । रु॒चे । उ॒षस॑म् । केन॑ । अनु॑ । ऐ॒न्ध्द॒ । केन॑ । सा॒य॒म्ऽभ॒वम् । द॒दे॒ ॥२.१६॥
Mantra 17
को अ॑स्मि॒न्रेतो॒ न्यदधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥
क: । अ॒स्मि॒न् । रेत॑: । नि । अ॒द॒धा॒त् । तन्तु॑: । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । क: । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । क: । बा॒णम् । क: । नृत॑: । द॒धौ॒ ॥२.१७॥
Mantra 18
केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ॥
केन॑ । इ॒माम् । भूमि॑म् । औ॒र्णो॒त् । केन॑ । परि॑ । अ॒भ॒व॒त् । दिव॑म् । केन॑ । अ॒भि । म॒ह्ना । पर्व॑तान् । केन॑ । कर्मा॑णि । पुरु॑ष:॥२.१८॥
Mantra 19
केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्। केन॑ य॒ज्ञं च॑ श्र॒द्धां च॒ केना॑स्मि॒न्निहि॑तं॒ मनः॑ ॥
केन॑ ।प॒र्जन्य॑म् । अनु॑ । ए॒ति॒ । केन॑ । सोम॑म् । वि॒ऽच॒क्ष॒णम् । केन॑ । य॒ज्ञम् । च॒ । अ॒ध्दाम् । च॒ । केन॑ । अ॒स्मि॒न् । निऽहि॑तम् । मन॑: ॥२.१९॥
Mantra 20
केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्। केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ॥
केन॑ । श्रोत्रि॑यम् । आ॒प्नो॒ति॒ । केन॑ । इ॒मम् । प॒र॒मे॒ऽस्थित॑म् । केन॑ । इ॒मम् । अ॒ग्निम् । पुरु॑ष: । केन॑ । स॒म्ऽव॒त्स॒रम् । म॒मे॒ ॥२.२०॥
Mantra 21
ब्रह्म॒ श्रोत्रि॑यमाप्नोति॒ ब्रह्मे॒मं प॑रमेष्ठिनम्। ब्रह्मे॒मम॒ग्निं पूरु॑षो॒ ब्रह्म॑ संवत्स॒रं म॑मे ॥
ब्रह्म॑ । श्रोत्रि॑यम् । आ॒प्नो॒ति॒ । ब्रह्म॑ । इ॒मम् । प॒र॒मे॒ऽस्थिन॑म् । ब्रह्म॑ । इ॒मम् । अ॒ग्निम् । पुरु॑ष: । ब्रह्म॑ । स॒म्ऽव॒त्स॒रम् । म॒मे॒ ॥२.२१॥
Mantra 22
केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः। केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ॥
केन॑ । दे॒वान् । अनु॑ । क्षि॒य॒ति॒ । केन॑ । दैव॑ऽजना: । विश॑: । केन॑ । इ॒दम् । अ॒न्यत् । नक्ष॑त्रम् । केन॑ । सत् । क्ष॒त्रम् । उ॒च्य॒ते॒ ॥२.२२॥
Mantra 23
ब्रह्म॑ दे॒वाँ अनु॑ क्षियति॒ ब्रह्म॒ दैव॑जनी॒र्विशः॑। ब्रह्मे॒दम॒न्यन्नक्ष॑त्रं॒ ब्रह्म॒ सत्क्ष॒त्रमु॑च्यते ॥
ब्रह्म॑ । दे॒वान् । अनु॑ । क्षि॒य॒ति॒ । ब्रह्म॑ । दैव॑ऽजनी: । विश॑: । ब्रह्म॑ । इ॒दम् । अ॒न्यत् । नक्ष॑त्रम् । ब्रह्म॑ । सत् । क्ष॒त्रम् । उ॒च्य॒ते॒ ॥२.२३॥
Mantra 24
केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता। केने॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ॥
केन॑ । इ॒यम् । भूमि॑: । विऽहि॑ता । केन॑ । द्यौ: । उत्ऽत॑रा । हि॒ता । केन॑ । इ॒दम् । ऊ॒र्ध्वम् । ति॒र्यक् । च॒ । अ॒न्तरि॑क्षम् । व्यच॑: । हि॒तम् ॥२.२४॥
Mantra 25
ब्रह्म॑णा॒ भूमि॒र्विहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता। ब्रह्मे॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ॥
ब्रह्म॑णा । भूमि॑: । विऽहि॑ता । ब्रह्म॑ । द्यौ: । उत्ऽत॑रा । हि॒ता । ब्रह्म॑ । इ॒दम् । ऊ॒र्ध्वम् । ति॒र्यक् । च॒ । अ॒न्तरि॑क्षम् । व्यच॑: । हि॒तम् ॥२.२५॥
Mantra 26
मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्। म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त्पव॑मा॒नोऽधि॑ शीर्ष॒तः ॥
मू॒र्धान॑म् । अ॒स्य॒ । स॒म्ऽसीव्य॑ । अथ॑र्वा । हृद॑यम् । च॒ । यत् । म॒स्तिष्का॑त् । ऊ॒र्ध्व: । प्र । ऐ॒र॒य॒त् । पव॑मान: । अधि॑ । शी॒र्ष॒त: ॥२.२६।
Mantra 27
तद्वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः। तत्प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ॥
तत् । वै । अथ॑र्वण: । शिर॑: । दे॒व॒ऽको॒श: । सम्ऽउ॑ब्जित: । तत् । प्रा॒ण: । अ॒भि । र॒क्ष॒ति॒ । शिर॑: । अन्न॑म् । अथो॒ इति॑ । मन॑: ॥२.२७॥
Mantra 28
ऊ॒र्ध्वो नु सृ॒ष्टास्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वाँ३। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥
ऊ॒र्ध्व: । नु । सृ॒ष्टा३: । ति॒र्यङ् । नु । सृ॒ष्टा३: । सर्वा॑: । दिश॑: । पुरु॑ष: । आ । ब॒भू॒वाँ३ । पुर॑म् । य: । ब्रह्म॑ण: । वेद॑ । यस्या॑: । पुरु॑ष: । उ॒च्यते॑ ॥२.२८॥
Mantra 29
यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्। तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ॥
य: । वै । ताम् । ब्रह्म॑ण: । वेद॑ । अ॒मृते॑न । आऽवृ॑ताम् । पुर॑म् । तस्मै॑ । ब्रह्म॑ । च॒ । ब्रा॒ह्मा: । च॒ । चक्षु॑: । प्रा॒णम् । प्र॒ऽजाम् । द॒दु॒: ॥२.२९॥
Mantra 30
न वै तं चक्षु॑र्जहाति॒ न प्रा॒णो ज॒रसः॑ पु॒रा। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥
न । वै । तम् । चक्षु॑: । ज॒हा॒ति॒ । न । प्रा॒ण: । ज॒रस॑: । पु॒रा । पुर॑म् । य: । ब्रह्म॑ण: । वेद॑ । यस्या॑: । पुरु॑ष: । उ॒च्यते॑ ॥२.३०॥
Mantra 31
अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या। तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥
अ॒ष्टाऽच॑क्रा । नव॑ऽद्वारा । दे॒वाना॑म् । पू: । अ॒यो॒ध्या । तस्या॑म् । हि॒र॒ण्यय॑: । कोश॑: । स्व॒:ऽग: । ज्योति॑षा । आऽवृ॑त: ॥२.३१॥
Mantra 32
तस्मि॑न्हिर॒ण्यये॒ कोशे॒ त्र्य॑रे॒ त्रिप्र॑तिष्ठिते। तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥
तस्मि॑न् । हि॒र॒ण्यये॑ । कोशे॑ । त्र्यऽअ॑रे । त्रिऽप्र॑तिस्थिते । तस्मि॑न् । यत् । य॒क्षम् । आ॒त्म॒न्ऽवत् । तत् । वै । ब्र॒ह्म॒ऽविद॑: । वि॒दु॒: ॥२.३२॥
Mantra 33
प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्। पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम् ॥
प्र॒ऽभ्राज॑मानाम् । हरि॑णीम् । यश॑सा । स॒म्ऽपरि॑वृताम् । पुर॑म् । हि॒र॒ण्ययी॑म् । ब्रह्म॑ । आ । वि॒वे॒श॒ । अप॑राऽजिताम् ॥२.३३॥