Mantra 1
नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑। बाले॑भ्यः श॒फेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑ ॥
नम॑: । ते॒ । जाय॑मानायै । जा॒तायै॑ । उ॒त । ते॒ । नम॑: । बाले॑भ्य: । श॒फेभ्य॑: । रू॒पाय॑ । अ॒घ्न्ये॒ । ते॒ । नम॑: ॥१०.१॥
Mantra 2
यो वि॒द्यात्स॒प्त प्र॒वतः॑ स॒प्त वि॒द्यात्प॑रा॒वतः॑। शिरो॑ य॒ज्ञस्य॒ यो वि॒द्यात्स व॒शां प्रति॑ गृह्णीयात् ॥
य: । वि॒द्यात् । स॒प्त । प्र॒ऽवत॑: । स॒प्त । वि॒द्यात् । प॒रा॒ऽवत॑: । शिर॑: । य॒ज्ञस्य॑ । य: । वि॒द्यात् । स: । व॒शाम् । प्रति॑ । गृ॒ह्णी॒या॒त् ॥१०.२॥
Mantra 3
वेदा॒हं स॒प्त प्र॒वतः॑ स॒प्त वे॑द परा॒वतः॑। शिरो॑ य॒ज्ञस्या॒हं वे॑द॒ सोमं॑ चास्यां विचक्ष॒णम् ॥
वेद॑ । अ॒हम् । स॒प्त । प्र॒ऽवत॑: । स॒प्त । वे॒द॒ । प॒रा॒ऽवत॑: । शिर॑: । य॒ज्ञस्य॑ । अ॒हम् । वे॒द॒ । सोम॑म् । च॒ । अ॒स्या॒म् । वि॒ऽच॒क्ष॒णम् ॥१०.३॥
Mantra 4
यया॒ द्यौर्यया॑ पृथि॒वी ययापो॑ गुपि॒ता इ॒माः। व॒शां स॒हस्र॑धारां॒ ब्रह्म॑णा॒च्छाव॑दामसि ॥
यया॑ । द्यौ: । यया॑ । पृ॒थि॒वी । यया॑ । आप॑: । गु॒पि॒ता: । इ॒मा: । व॒शाम् । स॒हस्र॑ऽधाराम् । ब्रह्म॑णा । अ॒च्छ॒ऽआव॑दामसि ॥१०.४॥
Mantra 5
श॒तं कं॒साः श॒तं दो॒ग्धारः॑ श॒तं गो॒प्तारो॒ अधि॑ पृ॒ष्ठे अ॑स्याः। ये दे॒वास्तस्यां॑ प्रा॒णन्ति॑ ते व॒शां वि॑दुरेक॒धा ॥
श॒तम् । कं॒सा: । श॒तम् । दो॒ग्धार॑: । श॒तम् । गो॒प्तार॑: । अधि॑ । पृ॒ष्ठे । अ॒स्या॒: । ये । दे॒वा: । तस्या॑म् । प्रा॒णन्ति॑ । ते । व॒शाम् । वि॒दु॒: । ए॒क॒ऽधा ॥१०.५॥
Mantra 6
य॑ज्ञप॒दीरा॑क्षीरा स्व॒धाप्रा॑णा म॒हीलु॑का। व॒शा प॒र्जन्य॑पत्नी दे॒वाँ अप्ये॑ति॒ ब्रह्म॑णा ॥
य॒ज्ञ॒ऽप॒दी । इरा॑ऽक्षीरा । स्व॒धाऽप्रा॑णा । म॒हीलु॑का । व॒शा । प॒र्जन्य॑ऽपत्नी । दे॒वान् । अपि॑ । ए॒ति॒ । ब्रह्म॑णा ॥१०.६॥
Mantra 7
अनु॑ त्वा॒ग्निः प्रावि॑श॒दनु॒ सोमो॑ वशे त्वा। ऊध॑स्ते भद्रे प॒र्जन्यो॑ वि॒द्युत॑स्ते॒ स्तना॑ वशे ॥
अनु॑ । त्वा॒ । अ॒ग्नि: । प्र । अ॒वि॒श॒त् । अनु॑ । सोम॑: । व॒शे॒ । त्वा॒ । ऊध॑: । ते॒ । भ॒द्रे॒ । प॒र्जन्य॑: । वि॒ऽद्युत॑: । ते॒ । स्तना॑: । व॒शे॒ ॥१०.७॥
Mantra 8
अ॒पस्त्वं धु॑क्षे प्रथ॒मा उ॒र्वरा॒ अप॑रा वशे। तृ॒तीयं॑ रा॒ष्ट्रं धु॒क्षेऽन्नं॑ क्षी॒रं व॑शे॒ त्वम् ॥
अ॒प: । त्वम् । धु॒क्षे॒ । प्र॒थ॒मा: । उ॒र्वरा॑: । अप॑रा: । व॒शे॒ । तृ॒तीय॑म् । रा॒ष्ट्रम् । धु॒क्षे॒ । अन्न॑म् । क्षी॒रम् । व॒शे॒ । त्वम् ॥१०.८॥
Mantra 9
यदा॑दि॒त्यैर्हू॒यमा॑नो॒पाति॑ष्ठ ऋतावरि। इन्द्रः॑ स॒हस्रं॒ पात्रा॒न्त्सोमं॑ त्वापाययद्वशे ॥
यत् । आ॒दि॒त्यै: । हू॒यमा॑ना । उ॒प॒ऽअति॑ष्ठ: । ऋ॒त॒ऽव॒रि॒ । इन्द्र॑: । स॒हस्र॑म् । पात्रा॑न् । सोम॑म् । त्वा॒ । अ॒पा॒य॒य॒त् । व॒शे॒ ॥१०.९॥
Mantra 10
यद॒नूचीन्द्र॒मैरात्त्वा॑ ऋष॒भोह्व॑यत्। तस्मा॑त्ते वृत्र॒हा पयः॑ क्षी॒रं क्रु॒द्धोह॑रद्वशे ॥
यत् । अ॒नूची॑ । इन्द्र॑म् । ऐ: । आत् । त्वा॒ । ऋ॒ष॒भ: । अ॒ह्व॒य॒त् । तस्मा॑त् । ते॒ । वृ॒त्र॒ऽहा । पय॑: । क्षी॒रम् । क्रु॒ध्द: । अ॒ह॒र॒त् । व॒शे॒॥१०.१०॥
Mantra 11
यत्ते॑ क्रु॒द्धो धन॑पति॒रा क्षी॒रमह॑रद्वशे। इ॒दं तद॒द्य नाक॑स्त्रि॒षु पात्रे॑षु रक्षति ॥
यत् । ते॒ । क्रु॒ध्द: । धन॑ऽपति: । आ । क्षी॒रम् । अह॑रत् । व॒शे॒ । इ॒दम् । तत् । अ॒द्य । नाक॑: । त्रि॒षु । पात्रे॑षु । र॒क्ष॒ति॒ ॥१०.११॥
Mantra 12
त्रि॒षु पात्रे॑षु॒ तं सोम॒मा दे॒व्यहरद्व॒शा। अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥
त्रि॒षु । पात्रे॑षु । तम् । सोम॑म् । आ । दे॒वी । अ॒ह॒र॒त् । व॒शा । अथ॑र्वा । यत्र॑ । दी॒क्षि॒त: । ब॒र्हिषि॑ । आस्त॑ । हि॒र॒ण्यये॑ ॥१०.१२॥
Mantra 13
सं हि सोमे॒नाग॑त॒ समु॒ सर्वे॑ण प॒द्वता॑। व॒शा स॑मु॒द्रमध्य॑ष्ठाद्गन्ध॒र्वैः क॒लिभिः॑ स॒ह ॥
सम् । हि । सोमे॑न । अग॑त । सम् । ऊं॒ इति॑ । सर्वे॑ण । प॒त्ऽवता॑ । व॒शा । स॒मु॒द्रम् । अधि॑ । अ॒स्था॒त् । ग॒न्ध॒र्वै: । क॒लिऽभि॑: । स॒ह ॥१०.१३॥
Mantra 14
सं हि वाते॒नाग॑त॒ समु॒ सर्वैः॑ पत॒त्रिभिः॑। व॒शा स॑मु॒द्रे प्रानृ॑त्य॒दृचः॒ सामा॑नि॒ बिभ्र॑ती ॥
सम् । हि । वाते॑न । अग॑त । सम् । ऊं॒ इति॑ । सर्वै॑: । प॒त॒त्रिऽभि॑: । व॒शा । स॒मु॒द्रे । प्र । अ॒नृ॒त्य॒त् । ऋच॑: । सामा॑नि । बिभ्र॑ती ॥१०.१४॥
Mantra 15
सं हि सूर्ये॑णागत॒ समु॒ सर्वे॑ण॒ चक्षु॑षा। व॒शा स॑मु॒द्रमत्य॑ख्यद्भ॒द्रा ज्योतीं॑षि॒ बिभ्र॑ती ॥
सम् । हि । सूर्ये॑ण । अग॑त । सम् । ऊं॒ इति॑ । सर्वे॑ण । चक्षु॑षा । व॒शा । स॒मु॒द्रम् । अति॑ । अ॒ख्य॒त् । भ॒द्रा । ज्योतीं॑षि । बिभ्र॑ती ॥१०.१५॥
Mantra 16
अ॒भीवृ॑ता॒ हिर॑ण्येन॒ यद॑तिष्ठ ऋतावरि। अश्वः॑ समु॒द्रो भू॒त्वाध्य॑स्कन्दद्वशे त्वा ॥
अ॒भिऽवृ॑ता । हिर॑ण्येन । यत् । अति॑ष्ठ: । ऋ॒त॒ऽव॒रि॒ । अश्व॑: । स॒मु॒द्र: । भू॒त्वा । अधि॑ । अ॒स्क॒न्द॒त् । व॒शे॒ । त्वा॒ ॥१०.१६॥
Mantra 17
तद्भ॒द्राः सम॑गच्छन्त व॒शा देष्ट्र्यथो॑ स्व॒धा। अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥
यत् । भ॒द्रा: । सम् । अ॒ग॒च्छ॒न्त॒ । व॒शा । देष्ट्री॑ । अथो॒ इति॑ । स्व॒धा । अथ॑र्वा । यत्र॑ । दी॒क्षि॒त: । ब॒र्हिषि॑ । आस्त॑ । हि॒र॒ण्यये॑ ॥१०.१७॥
Mantra 18
व॒शा मा॒ता रा॑ज॒न्यस्य व॒शा मा॒ता स्व॑धे॒ तव॑। व॒शाया॑ य॒ज्ञ आयु॑धं॒ तत॑श्चि॒त्तम॑जायत ॥
व॒शा । मा॒ता । रा॒ज॒न्य᳡स्य । व॒शा । मा॒ता । स्व॒धे॒ । तव॑ । व॒शाया॑: । य॒ज्ञे । आयु॑धम् । तत॑: । चि॒त्तम् । अ॒जा॒य॒त॒ ॥१०.१८॥
Mantra 19
ऊ॒र्ध्वो बि॒न्दुरुद॑चर॒द्ब्रह्म॑णः॒ ककु॑दा॒दधि॑। तत॒स्त्वं ज॑ज्ञिषे वशे॒ ततो॒ होता॑जायत ॥
ऊ॒र्ध्व: । बि॒न्दु: । उत् । अ॒च॒र॒त् । ब्रह्म॑ण: । ककु॑दात् । अधि॑ । तत॑: । त्वम् । ज॒ज्ञि॒षे॒ । व॒शे॒ । तत॑: । होता॑ । अ॒जा॒य॒त॒ ॥१०.१९॥
Mantra 20
आ॒स्नस्ते॒ गाथा॑ अभवन्नु॒ष्णिहा॑भ्यो॒ बलं॑ वशे। पा॑ज॒स्याज्जज्ञे य॒ज्ञ स्तने॑भ्यो र॒श्मय॒स्तव॑ ॥
आ॒स्न: । ते॒ । गाथा॑: । अ॒भ॒व॒न् । उ॒ष्णिहा॑भ्य: । बल॑म् । व॒शे॒ । पा॒ज॒स्या᳡त् । ज॒ज्ञे॒ । य॒ज्ञ: ।स्तने॑भ्य: । र॒श्मय॑: । तव॑ ॥१०.२०॥
Mantra 21
ई॒र्माभ्या॒मय॑नं जा॒तं सक्थि॑भ्यां च वशे॒ तव॑। आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒दरा॒दधि॑ वी॒रुधः॑ ॥
ई॒र्माभ्या॑म् । अय॑नम् । जा॒तम् । सक्थि॑ऽभ्याम् । च॒ । व॒शे॒ । तव॑ । आ॒न्त्रेभ्य॑: । ज॒ज्ञि॒रे॒ । अ॒त्रा: । उ॒दरा॑त् । अधि॑ । वी॒रुध॑: ॥१०.२१॥
Mantra 22
यदु॒दरं॒ वरु॑ण॒स्यानु॒प्रावि॑शथा वशे। तत॑स्त्वा ब्र॒ह्मोद॑ह्वय॒त्स हि ने॒त्रमवे॒त्तव॑ ॥
यत् । उ॒दर॑म् । वरु॑णस्य । अ॒नु॒ऽप्रावि॑शथा: । व॒शे॒ । तत॑: । त्वा॒ । ब्र॒ह्मा । उत् । अ॒ह्व॒य॒त् । स: । हि । ने॒त्रम् । अवे॑त् । तव॑ ॥१०.२२॥
Mantra 23
सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः। स॒सूव॒ हि तामा॒हुर्व॒शेति॒ ब्रह्म॑भिः॒ क्लृप्तः स ह्यस्या॒ बन्धुः॑ ॥
सर्वे॑ । गर्भा॑त् । अ॒वे॒प॒न्त॒ । जाय॑मानात् । अ॒सू॒प्स्व᳡: । स॒सूव॑ । हि । ताम् । आ॒हु: । व॒शा । इति॑ । ब्रह्म॑ऽभि: । क्लृ॒प्त: । स: । हि । अ॒स्या॒: । बन्धु॑: ॥१०.२३॥
Mantra 24
युध॒ एकः॒ सं सृ॑जति॒ यो अ॑स्या॒ एक॒ इद्व॒शी। तरां॑सि य॒ज्ञा अ॑भव॒न्तर॑सां॒ चक्षु॑रभवद्व॒शा ॥
युध॑: । एक॑: । सम् । सृ॒ज॒ति॒ । य: । अ॒स्या॒: । एक॑: । इत् । व॒शी । तरां॑सि । य॒ज्ञा । अ॒भ॒व॒न् । तर॑साम् । चक्षु॑: । अ॒भ॒व॒त् । व॒शा ॥१०.२४॥
Mantra 25
व॒शा य॒ज्ञं प्रत्य॑गृह्णाद्व॒शा सूर्य॑मधारयत्। व॒शाया॑म॒न्तर॑विशदोद॒नो ब्र॒ह्मणा॑ स॒ह ॥
व॒शा । य॒ज्ञम् । प्रति॑ । अ॒गृ॒ह्णा॒त् । व॒शा । सूर्य॑म् । अ॒धा॒र॒य॒त् । व॒शाया॑म् । अ॒न्त: । अ॒वि॒श॒त् । ओ॒द॒न: । ब्र॒ह्मणा॑ । स॒ह ॥१०.२५॥
Mantra 26
व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते। व॒शेदं सर्व॑मभवद्दे॒वा म॑नु॒ष्या॒ असु॑राः पि॒तर॒ ऋष॑यः ॥
व॒शाम् । ए॒व । अ॒मृत॑म् । आ॒हु॒: । व॒शाम् । मृ॒त्युम् । उप॑ । आ॒स॒ते॒ । व॒शा । इ॒दम् । सर्व॑म् । अ॒भ॒व॒त् । दे॒वा: । म॒नु॒ष्या᳡: । असु॑रा: । पि॒तर॑: । ऋष॑य: ॥१०.२६॥
Mantra 27
य एवं॑ वि॒द्यात्स व॒शां प्रति॑ गृह्णी॒यात्। तथा॒ हि य॒ज्ञः सर्व॑पाद्दु॒हे दा॒त्रेऽन॑पस्फुरन् ॥
य: । ए॒वम् । वि॒द्यात् । स: । व॒शाम् । प्रति॑ । गृ॒ह्णी॒या॒त् । तथा॑ । हि । य॒ज्ञ: । सर्व॑ऽपात् । दु॒हे । दा॒त्रे । अन॑पऽस्फुरन् ॥१०.२७॥
Mantra 28
ति॒स्रो जि॒ह्वा वरु॑णस्या॒न्तर्दी॑द्यत्या॒सनि॑। तासां॒ या मध्ये॒ राज॑ति॒ सा व॒शा दु॑ष्प्रति॒ग्रहा॑ ॥
ति॒स्र: । जि॒ह्वा: । वरु॑णस्य । अ॒न्त: । दी॒द्य॒ति॒ । आ॒सनि॑ । तासा॑म् । या । मध्ये॑ । राज॑ति । सा । व॒शा । दु॒:ऽप्र॒ति॒ग्रहा॑ ॥१०.२८॥
Mantra 29
च॑तु॒र्धा रेतो॑ अभवद्व॒शायाः॑। आप॒स्तुरी॑यम॒मृतं॒ तुरी॑यं य॒ज्ञस्तुरी॑यं प॒शव॒स्तुरी॑यम् ॥
च॒तु॒:ऽधा । रेत॑: । अ॒भ॒व॒त् । व॒शाया॑: । आप॑: । तुरी॑यम् । अ॒मृत॑म् । तुरी॑यम् । य॒ज्ञ: । तुरी॑यम् । प॒शव॑: । तुरी॑यम् ॥१०.२९॥
Mantra 30
व॒शा द्यौर्व॒शा पृ॑थि॒वी व॒शा विष्णुः॑ प्र॒जाप॑तिः। व॒शाया॑ दु॒ग्धम॑पिबन्त्सा॒ध्या वस॑वश्च ये ॥
व॒शा । द्यौ: । व॒शा । पृ॒थि॒वी । व॒शा । विष्णु॑: । प्र॒जाऽप॑ति: । व॒शाया॑: । दु॒ग्धम् । अ॒पि॒ब॒न् । सा॒ध्या: । वस॑व: । च॒ । ये ॥१०.३०॥
Mantra 31
व॒शाया॑ दु॒ग्धं पी॒त्वा सा॒ध्या वस॑वश्च ये। ते वै ब्र॒ध्नस्य॑ वि॒ष्टपि॒ पयो॑ अस्या॒ उपा॑सते ॥
व॒शाया॑: । दु॒ग्धम् । पी॒त्वा । सा॒ध्या: । वस॑व: । च॒ । ये । ते । वै । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । पय॑: । अ॒स्या॒: । उप॑ । आ॒स॒ते॒ ॥१०.३१॥
Mantra 32
सोम॑मेना॒मेके॑ दुह्रे घृ॒तमेक॒ उपा॑सते। य ए॒वं वि॒दुषे॑ व॒शां द॒दुस्ते॑ ग॒तास्त्रि॑दि॒वं दि॒वः ॥
सोम॑म् । ए॒ना॒म् । एके॑ । दु॒ह्रे॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । ये । ए॒वम् । वि॒दुषे॑ । व॒शाम् । द॒दु: । ते । ग॒ता: । त्रि॒ऽदि॒वम् । दि॒व: ॥१०.३२॥
Mantra 33
ब्रा॑ह्म॒णेभ्यो॑ व॒शां द॒त्त्वा सर्वां॑ल्लो॒कान्त्सम॑श्नुते। ऋ॒तं ह्य।स्या॒मार्पि॑त॒मपि॒ ब्रह्मा॑थो॒ तपः॑ ॥
ब्रा॒ह्म॒णेभ्य॑: । व॒शाम् । द॒त्वा । सर्वा॑न् । लो॒कान् । सम् । अ॒श्नु॒ते॒ । ऋ॒तम् । हि । अ॒स्या॒म् । आर्पि॑तम् । अपि॑ । ब्रह्म॑ । अथो॒ इति॑ । तप॑: ॥१०.३३॥
Mantra 34
व॒शां दे॒वा उप॑ जीवन्ति व॒शां म॑नु॒ष्या उ॒त। व॒शेदं सर्व॑मभव॒द्याव॒त्सूर्यो॑ वि॒पश्य॑ति ॥
व॒शाम् । दे॒वा: । उप॑ । जी॒व॒न्ति॒ । व॒शाम् । म॒नु॒ष्या᳡: । उ॒त । व॒शा । इ॒दम्। सर्व॑म् । अ॒भ॒व॒त् । याव॑त् । सूर्य॑: । वि॒ऽपश्य॑ति ॥१०.३४॥