Mantra 1
यां क॒ल्पय॑न्ति वह॒तौ व॒धूमि॑व वि॒श्वरू॑पां॒ हस्त॑कृतां चिकि॒त्सवः॑। सारादे॒त्वप॑ नुदाम एनाम् ॥
याम् । क॒ल्पय॑न्ति । व॒ह॒तौ । व॒धूम्ऽइ॑व । वि॒श्वऽरू॑पाम् । हस्त॑ऽकृताम् । चि॒कि॒त्सव॑: । सा । आ॒रात् । ए॒तु॒ । अप॑ । नु॒दा॒म॒: । ए॒ना॒म् ॥१.१॥
Mantra 2
शी॑र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिनी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा। सारादे॒त्वप॑ नुदाम एनाम् ॥
शी॒र्ष॒ण्ऽवती॑ । न॒स्वती॑ । क॒र्णिनी॑ । कृ॒त्या॒ऽकृता॑ । सम्ऽभृ॑ता । वि॒श्वऽरू॑पा । सा । आ॒रात् । ए॒तु॒ । अप॑ । नु॒दा॒म॒: । ए॒ना॒म् ॥१.२॥
Mantra 3
शू॒द्रकृ॑ता॒ राज॑कृता॒ स्त्रीकृ॑ता ब्र॒ह्मभिः॑ कृ॒ता। जा॒या पत्या॑ नु॒त्तेव॑ क॒र्तारं॒ बन्ध्वृ॑च्छतु ॥
शूद्रऽकृ॑ता । राज॑ऽकृता । स्त्रीऽकृ॑ता । ब्र॒ह्मऽभि॑: । कृ॒ता । जा॒या । पत्या॑ । नु॒त्ताऽइ॑व । क॒र्तार॑म् । बन्धु॑ । ऋ॒च्छ॒तु॒ ॥१.३॥
Mantra 4
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
अ॒नया॑ । अ॒हम् । ओष॑ध्या । सर्वा॑: । कृ॒त्वा: । अ॒दू॒दु॒ष॒म् । याम् । क्षेत्रे॑ । च॒क्रु: । याम् । गोषु॑ । याम् । वा॒ । ते॒ । पुरु॑षेषु ॥१.४॥
Mantra 5
अ॒घम॑स्त्वघ॒कृते॑ श॒पथः॑ शपथीय॒ते। प्र॒त्यक्प्र॑ति॒प्रहि॑ण्मो॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ॥
अ॒घम् । अ॒स्तु॒ । अ॒घऽकृते॑ । श॒पथ॑: । श॒प॒थि॒ऽय॒ते । प्र॒त्यक् । प्र॒ति॒ऽप्रहि॑ण्म: । यथा॑ । कृ॒त्या॒ऽकृत॑म् । हनत् ॥१.५॥
Mantra 6
प्र॑ती॒चीन॑ आङ्गिर॒सोऽध्य॑क्षो नः पु॒रोहि॑तः। प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ॥
प्र॒ती॒चीन॑: । अ॒ङ्गि॒र॒स: । अधि॑ऽअक्ष: । न॒: । पु॒र:ऽहि॑त: । प्र॒तीची॑: । कृ॒त्या: । आ॒ऽकृत्य॑ । अ॒मून् । कृ॒त्या॒ऽकृत॑: । ज॒हि॒ ॥१.६॥
Mantra 7
यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥
य: । त्वा॒ । उ॒वाच॑ । परा॑ । इ॒हि॒ । इति॑ । प्र॒ति॒ऽकूल॑म् । उ॒त्ऽआ॒य्य᳡म् । तम् । कृ॒त्ये॒ । अ॒भि॒ऽनिव॑र्तस्व । मा । अ॒स्मान् । इ॒च्छ॒: । अ॒ना॒गस॑: ॥१.७॥
Mantra 8
यस्ते॒ परूं॑षि संद॒धौ रथ॑स्येव॒र्भुर्धि॒या। तं ग॑च्छ॒ तत्र॒ तेऽय॑न॒मज्ञा॑तस्ते॒ऽयं जनः॑ ॥
य: । ते॒ । परूं॑षि । स॒म्ऽद॒धौ । रथ॑स्यऽइव । ऋ॒भु: । धि॒या । तम् । ग॒च्छ॒ । तत्र॑ । ते॒ । अय॑नम् । अज्ञा॑त: । ते॒ । अ॒यम् । जन॑: ॥१.८॥
Mantra 9
ये त्वा॑ कृ॒त्वाले॑भि॒रे वि॑द्व॒ला अ॑भिचा॒रिणः॑। शं॒भ्वी॒दं कृ॑त्या॒दूष॑णं प्रतिव॒र्त्म पु॑नःस॒रं तेन॑ त्वा स्नपयामसि ॥
ये । त्वा॒ । कृ॒त्वा । आ॒ऽले॒भि॒रे । वि॒द्व॒ला: । अ॒भि॒ऽचा॒रिण॑: । श॒म्ऽभु । इ॒दम् । कृ॒त्या॒ऽदूष॑णम् । प्र॒ति॒ऽव॒र्त्म । पु॒न॒:ऽस॒रम् । तेन॑ । त्वा॒ । स्न॒प॒या॒म॒सि॒ ॥१.९॥
Mantra 10
यद्दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म। अपै॑तु॒ सर्वं॒ मत्पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ॥
यत् । दु॒:ऽभगा॑म् । प्रऽस्न॑पिताम् । मृ॒तऽव॑त्साम् । उ॒प॒ऽए॒यि॒म् । अप॑ । ए॒तु॒ । सर्व॑म् । मत् । पा॒पम् । द्रवि॑णम् । मा॒ । उप॑ । ति॒ष्ठ॒तु॒ ॥१.१०॥
Mantra 11
यत्ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः। सं॑दे॒श्या॒त्सर्व॑स्मात्पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ॥
यत् । ते॒ । पि॒तृऽभ्य॑: ।दद॑त: । य॒ज्ञे । वा॒ । नाम॑ । ज॒गृ॒हु: । स॒म्ऽदे॒श्या᳡त् । सर्व॑स्मात् । पा॒पात् । इ॒मा: । मु॒ञ्च॒न्तु॒ । त्वा॒ । ओष॑धी: ॥१.११॥
Mantra 12
दे॑वैन॒सात्पित्र्या॑न्नामग्रा॒हात्सं॑दे॒श्यादभि॒निष्कृ॑तात्। मु॒ञ्चन्तु॑ त्वा वी॒रुधो॑ वीर्येण॒ ब्रह्म॑णा ऋ॒ग्भिः पय॑स॒ ऋषी॑णाम् ॥
दे॒व॒ऽए॒न॒सात् । पित्र्या॑त् । ना॒म॒ऽग्रा॒हात् । स॒म्ऽदे॒श्या᳡त् । अ॒भि॒ऽनिष्कृ॑तात् । मु॒ञ्चन्तु॑ । त्वा॒ । वी॒रुध॑: । वी॒र्ये᳡ण । ब्रह्म॑णा । ऋ॒क्ऽभि: । पय॑सा । ऋषी॑णाम् ॥१.१२॥
Mantra 13
यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥
यथा॑ । वात॑: । च्य॒वय॑ति । भूम्या॑: । रे॒णुम् । अ॒न्तरि॑क्षात् । च॒ । अ॒भ्रम् । ए॒व । मत् । सर्व॑म् । दु॒:ऽभू॒तम् । ब्रह्म॑ऽनुत्तम् । अप॑ । अ॒य॒ति॒ ॥१.१३॥
Mantra 14
अप॑ क्राम॒ नान॑दती॒ विन॑द्धा गर्द॒भीव॑। क॒र्तॄन्न॑क्षस्वे॒तो नु॒त्ता ब्रह्म॑णा वी॒र्यावता ॥
अप॑ । क्रा॒म॒ । नान॑दीती । विऽन॑ध्दा । ग॒र्द॒भीऽइ॑व । क॒र्तृन् । न॒क्ष॒स्व॒ । इ॒त: । नु॒त्ता । ब्रह्म॑णा । वी॒र्य᳡ऽवता ॥१.१४॥
Mantra 15
अ॒यं पन्थाः॑ कृ॒त्य॒ इति॑ त्वा नयामोऽभि॒प्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः। तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒टिनी॑ ॥
अ॒यम् । पन्था॑: । कृ॒त्ये॒ । इति॑ । त्वा॒ । न॒या॒म॒: । अ॒भि॒ऽप्रहि॑ताम् । प्रति॑ । त्वा॒ । प्र॒ । हि॒ण्म॒: । तेन॑ । अ॒भि । या॒हि॒ । भ॒ञ्ज॒ती । अन॑स्वतीऽइव । वा॒हिनी॑ । वि॒श्वऽरू॑पा । कु॒रू॒टिनी॑ ॥१.१५॥
Mantra 16
परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व। परे॑णेहि नव॒तिं ना॒व्या॒ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ॥
परा॑क् । ते॒ । ज्योति॑: । अप॑थम् । ते॒ । अ॒र्वाक् । अ॒न्यत्र॑ । अ॒स्मत् । अ॒यना । कृ॒णु॒ष्व॒ । परे॑ण । इ॒हि॒ । न॒व॒तिम् । ना॒व्या᳡: । अति॑ । दु॒:ऽगा: । स्रो॒त्या: । मा । क्ष॒णि॒ष्ठा॒: । परा॑ । इ॒हि॒ ॥१.१६॥
Mantra 17
वात॑ इव वृ॒क्षान्नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम्। क॒र्तॄन्नि॒वृत्ये॒तः कृ॑त्येऽप्रजा॒स्त्वाय॑ बोधय ॥
वात॑:ऽइव । वृ॒क्षान् । नि । मृ॒णी॒हि॒ । पा॒दय॑ । मा । गाम् । अश्व॑म् । पुरु॑षम् । उत् । शि॒ष॒: । ए॒षा॒म् । क॒र्तृन् । नि॒ऽवृत्य॑ । इ॒त: । कृ॒त्ये॒ । अ॒प्र॒जा॒:ऽत्वा॒य॑ । बो॒ध॒य॒ ॥१.१७॥
Mantra 18
यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः। अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्येऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥
याम् । ते॒ । ब॒र्हिषि॑ । याम् । श्म॒शा॒ने । क्षेत्रे॑ । कृ॒त्याम् । व॒ल॒गम् । वा॒ । नि॒ऽच॒ख्नु: । अ॒ग्नौ । वा॒ । त्वा॒ । गार्ह॑ऽपत्ये । अ॒भि॒ऽचे॒रु: । पाक॑म् । सन्त॑म् । धीर॑ऽतरा: । अ॒ना॒गस॑म् ॥१.१८॥
Mantra 19
उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं॑ त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म्। तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हन्तु॑ कृत्या॒कृतः॑ प्र॒जाम् ॥
उ॒प॒ऽआहृ॑तम् । अनु॑ऽबुध्दम् । निऽखा॑तम् । वैर॑म् । त्सा॒रि । अनु॑ । अ॒वि॒दा॒म॒ । कर्त्र॑म् । तत् । ए॒तु॒ । यत॑: । आऽभृ॑तम् । तत्र॑ । अश्व॑:ऽइव । वि । व॒र्त॒ता॒म् । हन्तु॑ । कृ॒त्या॒ऽकृत॑: । प्र॒ऽजाम् ॥१.१९॥
Mantra 20
स्वा॑य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि। उत्ति॑ष्ठै॒व परे॑ही॒तोऽज्ञा॑ते॒ किमि॒हेच्छ॑सि ॥
सु॒ऽआ॒य॒सा: । अ॒सय॑: । स॒न्ति॒ । न॒: । गृ॒हे । वि॒द्म । ते॒ । कृ॒त्ये॒ । य॒ति॒ऽधा । परूं॑षि । उत् । ति॒ष्ठ॒ । ए॒व । परा॑ । इ॒हि॒ । इ॒त: । अज्ञा॑ते । किम् । इ॒ह । इ॒च्छ॒सि॒ ॥१.२०॥
Mantra 21
ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व। इ॑न्द्रा॒ग्नी अ॒स्मान्र॑क्षतां॒ यौ प्र॒जानां॑ प्र॒जाव॑ती ॥
ग्री॒वा: । ते॒ । कृ॒त्ये॒ । पादौ॑ । च॒ । अपि॑ । क॒र्त्स्या॒मि॒ । नि: । द्र॒व॒ । इ॒न्द्रा॒ग्नी इति॑ । अ॒स्मान् । र॒क्ष॒ता॒म् । यौ । प्र॒ऽजाना॑म् । प्र॒जाव॑ती॒ इति॑ प्र॒जाऽव॑ती ॥१.२१॥
Mantra 22
सोमो॒ राजा॑धि॒पा मृ॑डि॒ता च॑ भू॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥
सोम॑: । राजा॑ । अ॒धि॒ऽपा: । मृ॒डि॒ता: । च॒ । भू॒तस्य॑ । न॒: । पत॑य: । मृ॒ड॒य॒न्तु॒ ॥१.२२॥
Mantra 23
भ॑वाश॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑। दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम् ॥
भ॒वा॒श॒र्वौ । अ॒स्य॒ता॒म् । पा॒प॒ऽकृते॑ । कृ॒त्या॒ऽकृते॑ । दु॒:ऽकृते॑ । वि॒ऽद्युत॑म् । दे॒व॒ऽहे॒तिम् ॥१.२३॥
Mantra 24
यद्ये॒यथ॑ द्वि॒पदी॒ चतु॑ष्पदी कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा। सेतो॒ष्टाप॑दी भू॒त्वा पुनः॒ परे॑हि दुच्छुने ॥
यदि॑ । आ॒ऽइ॒यथ॑ । द्वि॒ऽपदी॑ । चतु॑:ऽपदी । कृ॒त्या॒ऽकृता॑ । सम्ऽभृ॑ता । वि॒श्वऽरू॑पा । सा । इ॒त: । अ॒ष्टाऽप॑दी । भू॒त्वा । पुन॑: । परा॑ । इ॒हि॒ । दु॒च्छु॒ने॒ ॥१.२४॥
Mantra 25
अ॒भ्यक्ताक्ता॒ स्व॑रंकृता॒ सर्वं॒ भर॑न्ती दुरि॒तं परे॑हि। जा॑नीहि कृत्ये क॒र्तारं॑ दुहि॒तेव॑ पि॒तरं॒ स्वम् ॥
अ॒भिऽअ॑क्ता । आऽअ॑क्ता । सुऽअ॑रंकृता । सर्व॑म् । भर॑न्ती । दु॒:ऽइ॒तम् । परा॑ । इ॒हि॒ । जा॒नी॒हि॒ । कृ॒त्ये॒ । क॒र्तार॑म् । दु॒हि॒ताऽइ॑व । पि॒तर॑म् । स्वम् ॥१.२५॥
Mantra 26
परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य। मृ॒गः स मृ॑ग॒युस्त्वं न त्वा॒ निक॑र्तुमर्हति ॥
परा॑ । इ॒हि॒ । कृ॒त्ये॒ । मा । ति॒ष्ठ॒: । वि॒ध्दस्य॑ऽइव । प॒दम् । न॒य॒ । मृ॒ग: । स: । मृ॒ग॒ऽयु: । त्वम् । न । त्वा॒ । निऽक॑र्तृम् । अ॒र्ह॒ति॒ ॥१.२६॥
Mantra 27
उ॒त ह॑न्ति पूर्वा॒सिनं॑ प्रत्या॒दायाप॑र॒ इष्वा॑। उ॒त पूर्व॑स्य निघ्न॒तो नि ह॒न्त्यप॑रः॒ प्रति॑ ॥
उ॒त । ह॒न्ति॒ । पू॒र्व॒ऽआ॒सिन॑म् । प्र॒ति॒ऽआ॒दाय॑ । अप॑र: । इष्वा॑ । उ॒त । पूर्व॑स्य । नि॒ऽघ्न॒त: । नि । ह॒न्ति॒ । अप॑र: । प्रति॑ ॥१.२७॥
Mantra 28
ए॒तद्धि शृ॒णु मे॒ वचोऽथे॑हि॒ यत॑ ए॒यथ॑। यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥
ए॒तत् । हि । शृ॒णु । मे॒ । वच॑: । अथ॑ । इ॒हि॒ । यत॑: । आ॒ऽइ॒यथ॑ । य: । त्वा॒ । च॒कार॑ । तम् । प्रति॑ ॥१.२८॥
Mantra 29
अ॑नागोह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः। यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ॥
अ॒ना॒ग॒:ऽह॒त्या । वै । भी॒मा । कृ॒त्ये॒ । मा । न॒: । गाम् । अश्व॑म् । पुरु॑षम् । व॒धी॒: । यत्र॑ऽयत्र । असि॑ । निऽहि॑ता । तत॑: । त्वा॒ । उत् । स्था॒प॒या॒म॒सि॒ । प॒र्णात् । लघी॑यसी । भ॒व॒ ॥१.२९॥
Mantra 30
यदि॒ स्थ तम॒सावृ॑ता॒ जाले॑न॒भिहि॑ता इव। सर्वाः॑ सं॒लुप्ये॒तः कृ॒त्याः पुनः॑ क॒र्त्रे प्र हि॑ण्मसि ॥
यदि॑ । स्थ । तम॑सा । आऽवृ॑ता । जाले॑न । अ॒भिहि॑ता:ऽइव सर्वा॑: । स॒म्ऽलुप्य॑ । इ॒त: । कृ॒त्या: । पुन॑: । क॒र्त्रे । प्र । हि॒ण्म॒सि॒ ॥१.३०॥
Mantra 31
कृ॑त्या॒कृतो॑ वल॒गिनो॑ऽभिनिष्का॒रिणः॑ प्र॒जाम्। मृ॑णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ऽमून्कृ॑त्या॒कृतो॑ जहि ॥
कृ॒त्या॒ऽकृत॑: । व॒ल॒गिन॑: । अ॒भि॒ऽनि॒ष्का॒रिण॑: । प्र॒ऽजाम् । मृ॒णी॒हि । कृ॒त्ये॒ । मा । उत् । शि॒ष॒: । अ॒मून् । कृ॒त्या॒ऽकृत॑: । ज॒हि॒ ॥१.३१॥
Mantra 32
यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून्। ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ॥
यथा॑ । सूर्य॑: । मु॒च्यते॑ । तम॑स: । परि॑ । रात्रि॑म् । जहा॑ति । उ॒षस॑: । च॒ । के॒तून् । ए॒व । अ॒हम् । सर्व॑म् । दु॒:ऽभू॒तम् । कर्त्र॑म् । कृ॒त्या॒ऽकृता॑ । कृ॒तम् । ह॒स्तीऽइव॑ । रज॑: । दु॒:ऽइ॒तम् । ज॒हा॒मि॒ ॥१.३२॥