Mantra with Swara
ऐषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने। स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
आ । ए॒षा॒म् । य॒ज्ञम् । उ॒त । वर्च॑: । द॒दे॒ । अ॒हम् । रा॒य: । पोष॑म् । उ॒त । चि॒त्तानि॑ । अ॒ग्ने॒ । स॒ऽपत्ना॑: । अ॒स्मत् । अध॑रे । भ॒व॒न्तु॒ । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ । रो॒ह॒य॒ । इ॒मम् ॥
Mantra without Swara
ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने। सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥
आ । एषाम् । यज्ञम् । उत । वर्च: । ददे । अहम् । राय: । पोषम् । उत । चित्तानि । अग्ने । सऽपत्ना: । अस्मत् । अधरे । भवन्तु । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥
