Mantra with Swara
येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः। तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ॥
येन॑ । इन्द्रा॑य । स॒म्ऽअभ॑र: । पयां॑सि । उ॒त्त॒मेन॑ । ब्रह्म॑णा । जा॒त॒ऽवे॒द॒: । तेन॑ । त्वम् । अ॒ग्ने॒ । इ॒ह । व॒र्ध॒य॒ । इ॒मम् । स॒ऽजा॒ताना॑म् । श्रैष्ठ्ये॑ । आ । धे॒हि॒ । ए॒न॒म् ॥
Mantra without Swara
येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः। तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥
येन । इन्द्राय । सम्ऽअभर: । पयांसि । उत्तमेन । ब्रह्मणा । जातऽवेद: । तेन । त्वम् । अग्ने । इह । वर्धय । इमम् । सऽजातानाम् । श्रैष्ठ्ये । आ । धेहि । एनम् ॥
