Mantra with Swara
अ॒स्मिन्वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः। इ॒ममा॑दि॒त्या उ॒त विश्वे॑ च दे॒वा उत्त॑रस्मि॒ञ्ज्योति॑षि धारयन्तु ॥
अ॒स्मिन् । वसु॑ । वस॑व: । धा॒र॒य॒न्तु॒ । इन्द्र॑: । पू॒षा । वरु॑ण: । मि॒त्र: । अ॒ग्नि: ।इ॒मम् । आ॒दि॒त्या: । उ॒त । विश्वे॑ । च॒ । दे॒वा: । उत्ऽत॑रस्मिन् । ज्योति॑षि । धा॒र॒य॒न्तु॒ ॥
Mantra without Swara
अस्मिन्वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः। इममादित्या उत विश्वे च देवा उत्तरस्मिञ्ज्योतिषि धारयन्तु ॥
अस्मिन् । वसु । वसव: । धारयन्तु । इन्द्र: । पूषा । वरुण: । मित्र: । अग्नि: ।इमम् । आदित्या: । उत । विश्वे । च । देवा: । उत्ऽतरस्मिन् । ज्योतिषि । धारयन्तु ॥
