Mantra with Swara
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॑३ मम॑। ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
आप॑: । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे । मम॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥
Mantra without Swara
आपः पृणीत भेषजं वरूथं तन्वे३ मम। ज्योक्च सूर्यं दृशे ॥
आप: । पृणीत । भेषजम् । वरूथम् । तन्वे । मम । ज्योक् । च । सूर्यम् । दृशे ॥
