Mantra with Swara
असि॑तं ते प्र॒लय॑नमा॒स्थान॒मसि॑तं॒ तव॑। असि॑क्न्यस्योषधे॒ निरि॒तो ना॑शया॒ पृष॑त् ॥
आसि॑तम् । ते॒ । प्र॒ऽलय॑नम् । आ॒ऽस्थान॑म् । आसि॑तम् । तव॑ । असि॑क्नी । अ॒सि॒ । ओ॒ष॒धे॒ । नि: । इ॒त: । ना॒श॒य॒ । पृष॑त् ॥
Mantra without Swara
असितं ते प्रलयनमास्थानमसितं तव। असिक्न्यस्योषधे निरितो नाशया पृषत् ॥
आसितम् । ते । प्रऽलयनम् । आऽस्थानम् । आसितम् । तव । असिक्नी । असि । ओषधे । नि: । इत: । नाशय । पृषत् ॥
