Mantra with Swara
कि॒लासं॑ च पलि॒तं च॒ निरि॒तो ना॑शया॒ पृष॑त्। आ त्वा॒ स्वो वि॑शतां॒ वर्णः॒ परा॑ शु॒क्लानि॑ पातय ॥
कि॒लास॑म् । च॒ । प॒लि॒तम् । च॒ । नि: । इ॒त: । ना॒श॒य॒ । पृष॑त् । आ । त्वा॒ । स्व: । वि॒श॒ता॒म् । वर्ण॑: । परा॑ । शु॒क्लानि॑ । पा॒त॒य॒ ॥
Mantra without Swara
किलासं च पलितं च निरितो नाशया पृषत्। आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥
किलासम् । च । पलितम् । च । नि: । इत: । नाशय । पृषत् । आ । त्वा । स्व: । विशताम् । वर्ण: । परा । शुक्लानि । पातय ॥
