Mantra with Swara
यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते। यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥
य: । अ॒द्य । सेन्य॑: । व॒ध: । अ॒घ॒ऽयूना॑म् । उ॒त्ऽईर॑ते । यु॒वम् । तम् । मि॒त्रा॒व॒रु॒णौ॒ । अ॒स्मत् । य॒व॒य॒त॒म् । परि॑ ॥
Mantra without Swara
यो अद्य सेन्यो वधो ऽघायूनामुदीरते। युवं तं मित्रावरुणावस्मद्यावयतं परि ॥
य: । अद्य । सेन्य: । वध: । अघऽयूनाम् । उत्ऽईरते । युवम् । तम् । मित्रावरुणौ । अस्मत् । यवयतम् । परि ॥
