Mantra with Swara
यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्। ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥
यथा॑ । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तः । तिष्ठ॑ति । तेज॑नम् । ए॒व । रोग॑म् । च॒ । आ॒ऽस्रा॒वम् । च॒ । अ॒न्तः । ति॒ष्ठ॒तु॒ । मुञ्ज॑: । इत् ॥
Mantra without Swara
यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम्। एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत् ॥
यथा । द्याम् । च । पृथिवीम् । च । अन्तः । तिष्ठति । तेजनम् । एव । रोगम् । च । आऽस्रावम् । च । अन्तः । तिष्ठतु । मुञ्ज: । इत् ॥
