Mantra with Swara
असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च। अ॑न्तःको॒शमि॑व जा॒मयो ऽपि॑ नह्यामि ते॒ भग॑म्।।४।।
असि॑तस्य । ते॒ । ब्रह्म॑णा । क॒श्यप॑स्य । गय॑स्य । च॒ । अ॒न्त॒:को॒शम्ऽइ॑व । जा॒मय॑: । अपि॑ । न॒ह्या॒मि॒ । ते॒ । भग॑म् ॥
Mantra without Swara
असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च। अन्तःकोशमिव जामयो ऽपि नह्यामि ते भगम्।।४।।
असितस्य । ते । ब्रह्मणा । कश्यपस्य । गयस्य । च । अन्त:कोशम्ऽइव । जामय: । अपि । नह्यामि । ते । भगम् ॥
