Mantra with Swara
ए॒षा ते॑ कुल॒पा रा॑ज॒न्तामु॑ ते॒ परि॑ दद्मसि। ज्योक्पि॒तृष्वा॑साता॒ आ शी॒र्ष्णः स॒मोप्या॑त् ॥
ए॒षा । ते॒ । कु॒ल॒ऽपा: । रा॒ज॒न् । ताम् । ऊं॒ इति॑ । ते॒ । परि॑ । द॒द्म॒सि॒ । ज्योक् । पि॒तृषु॑ । आ॒सा॒तै॒ । आ । शी॒र्ष्ण: । सॅं॒म्ऽओप्या॑त् ॥
Mantra without Swara
एषा ते कुलपा राजन्तामु ते परि दद्मसि। ज्योक्पितृष्वासाता आ शीर्ष्णः समोप्यात् ॥
एषा । ते । कुलऽपा: । राजन् । ताम् । ऊं इति । ते । परि । दद्मसि । ज्योक् । पितृषु । आसातै । आ । शीर्ष्ण: । सॅंम्ऽओप्यात् ॥
