Mantra with Swara
प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः। वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत्स॑मु॒द्रे अ॒न्तर्निहि॑तासि॒ नाभिः॑ ॥
प्रऽव॑त: । न॒पा॒त् । नम॑: । ए॒व । अ॒स्तु॒ । तुभ्य॑म् । नम॑: । ते॒ । हे॒तये॑ । तपु॑षे । च॒ । कृ॒ण्म॒: ।वि॒द्म: । ते॒ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् । स॒मु॒द्रे । अ॒न्त: । निऽहि॑ता । अ॒सि॒ । नाभि॑: ॥
Mantra without Swara
प्रवतो नपान्नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः। विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥
प्रऽवत: । नपात् । नम: । एव । अस्तु । तुभ्यम् । नम: । ते । हेतये । तपुषे । च । कृण्म: ।विद्म: । ते । धाम । परमम् । गुहा । यत् । समुद्रे । अन्त: । निऽहिता । असि । नाभि: ॥
