Mantra with Swara
शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे। शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॑३ मम॑ ॥
शम् । मे॒ । पर॑स्मै । गात्रा॑य । शम् । अ॒स्तु॒ । अव॑राय । मे॒ ।शम् । मे॒ । च॒तु:ऽभ्य॑: । अङ्गे॑भ्य: । शम् । अ॒स्तु॒ । त॒न्वे । मम॑ ॥
Mantra without Swara
शं मे परस्मै गात्राय शमस्त्ववराय मे। शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे३ मम ॥
शम् । मे । परस्मै । गात्राय । शम् । अस्तु । अवराय । मे ।शम् । मे । चतु:ऽभ्य: । अङ्गेभ्य: । शम् । अस्तु । तन्वे । मम ॥
