Mantra with Swara
नम॑स्ते राजन्वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॑ग्र निचि॒केषि॑ द्रु॒ग्धम्। स॒हस्र॑म॒न्यान्प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ॥
नम॑: । ते॒ । रा॒ज॒न् । व॒रु॒ण॒ । अ॒स्तु॒ । म॒न्यवे॑ । विश्व॑म् । हि । उ॒ग्र॒ । नि॒ऽचि॒केषि॑ । द्रु॒ग्धम् । स॒हस्र॑म् । अ॒न्यान् । प्र । सु॒वा॒मि॒ । सा॒कम् । श॒तम् । जी॒वा॒ति॒ । श॒रद॑: । तव॑ । अ॒यम् ॥
Mantra without Swara
नमस्ते राजन्वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम्। सहस्रमन्यान्प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥
नम: । ते । राजन् । वरुण । अस्तु । मन्यवे । विश्वम् । हि । उग्र । निऽचिकेषि । द्रुग्धम् । सहस्रम् । अन्यान् । प्र । सुवामि । साकम् । शतम् । जीवाति । शरद: । तव । अयम् ॥
